SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः ॥ २४२ ॥ Jain Educati व्यवदानेन अक्रियं - अविद्यमान क्रियं कोऽर्थो ? - व्युपरतक्रियाख्यं शुक्लध्यानतुर्यभेदं जनयति, अक्रियाको व्युपरतक्रियः शुक्रुध्यानभेदवत्र्त्ती भूत्वा ततः पश्चादनन्तरं सिद्ध्यति - निष्ठितार्थो भवति, बुध्यते -ज्ञानदर्शनोपयोगाभ्यां वस्तुतत्त्वमवगच्छति, मुच्यते संसारात्, न तु "दग्धेन्धनः पुनरुपैति भव" मित्यादिवादिपरिकल्पितमुक्तिवत्पुनरिहागमवान्, अत एव परिनिर्वातीत्यादि प्राग्वत्, आह- अनन्तरं तपसो व्यवदानफलमुक्तं तच्च मुक्त्याख्यफलोपलक्षकमतिदेशेनोक्तं इति, किं पुनस्तत्फलत्वेन साक्षादस्याभिधानं ?, उच्यते, सूत्रकृतां वैचित्र्यख्यापनार्थ, ते हि परार्थोद्यतचेतसः परेषां प्रकर्षापकर्षावपेक्ष्य क्वचित्साक्षादभिधानोचितानप्यर्थान् गम्यतया निर्दिष्टवन्तः, क्वचित्तु गम्यमानानपि साक्षाद्, अन्यत्र तूभयथाऽपीति ( २८ ) । ३० । ४२ । व्यवदानं च सत्स्वपि संयमादिषु सुखशायितायामेव भवतीति तामाह सुहसाएणं (सायाए पा० ) भंते! जीवे किं जणेइ १, २ अणुस्सुयत्तं जणेइ, अणुस्सुएणं जीवे अणुकंपए अणुब्भडे विगयसोगे चरित्तमोहणिज्जं कम्मं खवेइ ( २९ ) । सू० ४३ । सुखं शेते, कोऽभिप्रायः ? प्रवचनशङ्कादीनां परलाभकामभोगशरीरसम्बाधनादिमदनस्पृहादीनां च क्रमेणाभावरूपासु चतसृषु | सुखशय्यासु स्थितत्वेन मनोविघाताभावान्निराकुलतया आस्ते इति सुखशायस्तस्य भावः सुखशायता, प्राकृतत्वात् सूत्रे यलोपः, तया अनुत्सुकत्वं, कोऽर्थः १, परलाभदिव्यमानुषकामभोगेषु सदा निःस्पृहत्वं यद्वा सुखस्य -वैषयिकस्य शातः तद्गतस्पृहानिवारणेनापनयनं सुखशातस्तेन अनुत्सुकत्वं विषयसुखं प्रति निःस्पृहत्वं जनयति - उत्पादयति, अनुत्सुकश्च जीवोऽनु - सह कम्पते इत्यनुकम्पकः, सुखोन्मुखो हि त्रियमाणमपि जीवं पश्यन् स्वसुखरसिक एवास्ते, अयं तु तद्विपरीत इति, दुःखेन कम्पमानमव ational For Private & Personal Use Only XXXXXXXXXXXX सम्यक्त्वपराक्रमाध्ययनम् २९ अष्टाविंशमैकोनत्रिंशमद्वारे ॥ २४२ ॥ w.jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy