________________
श्रुताराधना चैकाग्रमनःसन्निवेशनावत एव भवत्यतस्तामाहएगग्गमणसंनिवेसणाए णं भंते ! जीवे किं जणेइ ?, २ चित्तनिरोहं करेइ (२५)। सू० ३९ । एकमग्रं-प्रस्तावात् शुभमालम्बनं यस्येत्येकाग्रं तच्च तन्मनश्च तस्य संनिवेशना एकाग्रमनःसंनिवेशना तया, चित्तस्येतस्तत उन्मार्गगस्य निरोधो-नियन्त्रणा चित्तनिरोधस्तं करोति (२५)। २७ । ३९ ।
एवंविधस्यापि संयमादेवेष्टफलावाप्तिरिति तदाह
संजमेणं भंते ! जीवे किं जणेइ १, २ अणण्य त्तं जणेइ (२६)। सू०४०। संवरेण-पञ्चाश्रवविरमणादिना 'अनंहस्कत्वं' अविद्यमानबध्यमानकर्मत्वं जनयति, आश्रवविरमणात्मकत्वादस्य (२६)।२८॥४०॥ संयमवतोऽपि तपो विना न कर्मक्षय इति तदाह
तवेणं भंते ! जीवे किं जणेइ १.२ वोयाणं जणेइ (२७)। सू०४१। तपसा वक्ष्यमाणेन व्यवदानं-पूर्वबद्धकर्मापगमस्ततो विशिष्टां शुद्धिं जनयति (२७) । २९ । ४१ ।
इत्थं व्यवदानस्य तपोऽनंतरफलत्वात्तदाह
वोयाणेणं भंते ! जीवे किं जणेइ ?, २ अकिरियं जणेइ, अकिरियाए भवित्ता तओ पच्छा सिज्झइ ५ | (२८)। सू०४२।
पञ्चषष्ठसप्तविंशतितम
द्वाराणि
Jain Education
20
a l
For Privale & Personal use only
nelibrary.org