________________
अनुप्रेक्षा-चिन्तनिका तया प्रकृष्टशुभभावोत्पत्तिनिबन्धनतया आयुष्कवर्जा:-सप्तकर्मप्रकृतीः घणिअंति-बाद बन्धनं-श्लेषणं तेन बद्धा, निकाचिता इत्यर्थः, शिथिलबन्धनबद्धाः-किञ्चिन्मुकुलाः, कोऽर्थः -अपवर्तनादिकरणयोग्याः प्रकरोति, तपोरूपत्वादस्य, तपसश्च निकाचितकर्मक्षपणेऽपि क्षमत्वात् , दीर्घकालावस्थितिका ह्रस्वकालस्थितिकाः प्रकरोति, शुभाध्यवसायवशात्
स्थितिखण्डकापहारेणेति भावः, एतच्चैवं सर्वकर्मणामपि स्थितेरशुभत्वाद्, यत उक्तं-"सबासि पि ठिईओ सुभासुभाणपि होइ X असुभाओ। माणुस्सतिरिच्छदेवाऊअं च मुत्तूण सेसाणं ॥१॥” तीव्रानुभावाः चतुःस्थानिकरसत्वेन मन्दानुभावा त्रिस्थानि
करसत्वाद्यापादनेन प्रकरोति, इह चाशुभप्रकृतय एव गृह्यन्ते, शुभभावस्य शुभासु तीव्रानुभवे हेतुत्वात् , क्वचिदिदमपि दृश्यते बहुप्पएसग्गाओ अप्पपएसग्गाउ पकरेइत्ति, ननु केनाभिप्रायेणायुष्कवर्जाः सप्तेत्यभिधानं, शुभायुष एव संयतस्य सम्भवात् , तस्यैव चानुप्रेक्षा तात्त्विकी, न च शुभभावेन शुभप्रकृतीनां शिथिलतादिकरणं, सक्लेशहेतुकत्वात् तस्याः, आहशुभायुर्बन्धोऽप्यस्याः किं न फलं?, उच्यते, आयुष्कं च कर्म स्यात् कदाचित् बध्नाति, स्यान्नो बध्नाति, तस्य त्रिभागादिशेषा| युष्कतायामेव बन्धसम्भवात्, तस्य च कादाचित्कत्वेनाविवक्षितत्वात् , तद्वतश्च कस्यचित् मुक्तिप्राप्तेस्तद्वन्धस्यानभिधानमिति | भावः, तथा असातवेदनीयं-शारीरादिदुःखहेतुं कर्म, चशब्दादन्याश्चाशुभप्रकृतीः नो-नैव भूयोभूय उपचिनोति-बध्नाति, भूयोभूयो ग्रहणं त्वन्यतमप्रमादयतः प्रमत्तसंयतगुणस्थानवर्तितायां तद्वन्धस्यापि सम्भवात् , अनादिकं-आदेरसम्भवात् , अनवदत्अनपगच्छत् अग्रं-परिमाणं यस्य सदावस्थितानन्तानन्तप्रमाणत्वेन सोनवदग्रोऽनन्त इत्यर्थः तं, प्रवाहापेक्षं चैतत्, दीघावं-दीघ
द्वाविंशतितम द्वारम्
उत्तरा०४१
Jain Education
For Private & Personal use only
Cjainelibrary.org