________________
उत्तरा० अवचूर्णिः
सम्यक्त्वपराक्रमा
॥२३९॥
ध्ययनम्
२९
प्रायश्चित्तकरणं च क्षमणावत एव स्यादतस्तमाह
खमावणयाए णं भंते ! जीवे किं जणेइ ?, २ पलायणभावं जणेइ, पलायणभावमुवगए (भावं जणयति पा०) य सवपाणभूयजीवसत्तेसु मित्तीभावं उप्पाएइ, मित्तीभावमुवगए य जीवे भावविसोहिं काऊण निन्भए भवइ (१७)। सू० ३१ ।
क्षमणा-दुष्कृतानन्तरं क्षमितव्यमिदं ममेत्यादिरूपा तया, प्रह्लादनभावः-चित्तप्रसत्तिरूपः अभिप्रायस्तं जनयति, प्रहादनभावमुपगताश्च सर्वे च ते प्राणाश्च-द्वित्रिचतुरिन्द्रियाः भूताश्च-तरवः जीवाश्च-पञ्चेन्द्रियः सत्त्वाः-शेषजन्तवः सर्वप्राणभूतजीवसत्त्वाः, उक्तं हि-"प्राणा द्वित्रिचतुः प्रोक्ता, भूताश्च तरवः स्मृताः। जीवाः पञ्चेन्द्रिया ज्ञेयाः, शेषाः सत्त्वा इतीरिताः॥१॥" तेषु मैत्रीभावं-परहितचिन्तालक्षणमुत्पादयति, ततो मैत्रीभावमुपगतश्चापि जीवो भावविशुद्धिं-रागद्वेषविगमरूपां कृत्वा निर्भय-इहपरलोकादिभयरहितो भवति, अशेषभयहेत्वभावादिति भावः (१७)। १९ । ३१ । एवंविधगुणावस्थितेन स्वाध्याये यतितव्यमिति तमाह
सज्झाएणं भंते ! जीवे किं जणेइ १, २ नाणवरणिजं कम्म खवेइ (१८)। सू० ३२ । स्वाध्यायेन ज्ञानावरणीयमुपलक्षणत्वात् शेषं च कर्म क्षपयन्ति, यत उक्तं-"कम्ममसंखिजभवं खवेइ अणुसमयमेव आउत्तो। अन्नयरंमिधि जोए सज्झायमि य विसेसेणं ॥१॥” (१८)। २० । ३२ ।
सप्तदशाष्टादशद्वारे
OXOXOXOXOXO-KOK
॥२३९॥
Jain Education.
imamallanal
For Privale & Personal use only
S
inelibrary.org