________________
अर्हद्वन्दनानन्तरं च काले स्वाध्यायः कालप्रत्युपेक्षणापूर्व विधेय इति तदाहकालपडिलेहणाए णं भंते ! जीवे किं जणेइ ?, नाणावरणिजं कम्म खवेइ (१५)। सू०२९ । कालः-पादोषिकादिस्तस्य प्रत्युक्षेपणा-आगमविधिना यथावन्निरूपणा ग्रहणप्रतिजागरणरूपा कालप्रत्युपेक्षणा तया ज्ञानावरणीयं कर्म क्षपयति, यथावत्प्रवृत्त्या तथाविधशुभभावेनेति भावः (१५)। १७ । २९ ।
कथञ्चिदकालपाठे च प्रायश्चित्तं प्रतिपत्तव्यमिति तत्करणमाह
पायच्छित्तकरणेणं भंते ! जीवे किं जणेइ ?, पावकम्मविसोहिं जणेइ निरइयारे आविभवइ सम्मं च णं | पायच्छित्तं पडिवजमाणे मग्गं च मग्गफलं च विसोहेइ आयारं आयारफलं च आराहेइ (१६)। सू०३० ।
तत्र पापं छिनत्ति प्रायश्चित्तं विशोधयति इति निरुत्या वा प्रायश्चित्तं, उक्तं हि-"पावं छिंदह जम्हा पायच्छित्तंति भण्णए तेण। पाएण वाऽवि चित्तं विसोहए तेण पच्छित्तं॥॥" तच्चालोचनादि, तस्य करणं-विधानं प्रायश्चित्तकरणं तेन पापकर्मणां विशुद्धिःभावः पापकर्मविशुद्धिः तां जनयति, निरतिचारश्चापि भवति, तेनैव ज्ञानाद्यतीचारविशोधनात् , सम्यक् प्रायश्चित्तं प्रतिपद्यमानो मार्ग इह ज्ञानप्राप्तिहेतुसम्यक्त्वं तं च तत्फलं च ज्ञानं विशोधयति-निर्मलीकुरुते, युगपदुत्पत्तावपि सम्यक्त्वस्य ज्ञानहेतुत्वं दीपप्रकाशवत्, यदागमः "कारणकजविभागो दीवपगासाण जुगवजम्मेवि । जुगवुप्पण्णंति तदा हेऊ नाणस्स सम्मतं ॥१॥" ततश्चाचारं चारित्रं तत्फलं च मुक्तिरूपमाराधयति, विशोधनाराधनयोश्च सर्वत्र निरतिचारतैव हेतुरिति भावनीयम् (१६)॥१८॥३०॥
पञ्चदशषोडशद्वारे
Jain Educati
o nal
For Private & Personal use only
lainelibrary.org