________________
उत्तरा०
अवचूर्णिः
॥ २३८ ॥
प्रत्याख्यानेन-मूलोत्तरगुणप्रत्याख्यानरूपेण, आश्रवद्वाराणि निरुणद्धि, तन्निरोधहेतुत्वात्तस्य, उपलक्षणं चैतत्पुरोपचितकर्मक्षये, मुक्त्यङ्गत्वेन अस्यान्यत्रोक्तत्वात्, तथा चाह - " पच्चक्खाणमिनं सेविऊण भावेण जिणवरुदि । पत्ता अनंतजीवा सासय सोक्खं लहुं मोक्खं ॥ १ ॥” ( १३ ) । १५ । २७ ।
अत्र चोत्तरगुणप्रत्याख्यानान्तर्भूतं नमस्कारसहितादि तद्ब्रहणानन्तरं यत्र सन्निहितानि चैत्यानि, तत्र तद्वन्दनं विधेयमित्युक्तं प्राक्, तच्च न स्तुतिस्तवमङ्गलं विनेति तदाह
यथुइमंगलेणं भंते ! जीवे किं जणेइ ?, २ नाणदंसणचरित्तबोहिलाभं संजणइ, नाणदंसणचरित्तबोहिलाभसंपन्ने णं जीवे अंत किरियं कप्पविमाणोववत्तियं आराहणं आराहेइ (अनंतकिरियं अमाहणं आराहेति पा० ) (१४) । सू० २८ ।
तत्र स्तवाः- देवेन्द्रस्तवादयः स्तुतयः - एकादिसप्तश्लोकान्ताः ततो द्वन्द्वे स्तुतिस्तवाः, स्तुतिशब्दस्य क्त्यन्तत्वात्प्राग्निपाते प्राप्तेऽपि सूत्रे प्राकृतत्वात् व्यत्ययनिर्देशः, स्तुतिस्तवा एव मङ्गलं - भावमङ्गलरूपं स्तुतिस्तवमङ्गलं तेन, ज्ञानदर्शनचारित्रात्मिका वोधिर्ज्ञानं वा बोधिस्तस्य लाभं - संपूर्णजिनधर्मावाप्तिं जनयति ज्ञान० लाभसम्पन्नश्च, अन्तः - पर्यन्तो भवस्य कर्मणो वा तस्य क्रियाकरणमन्तक्रिया मुक्तिरित्यर्थः, ततश्चान्तक्रियाहेतुत्वादन्तक्रिया तां, अन्तक्रियाहेतुत्वं च तद्भवेऽपि स्यादत आह-कल्पादेवलोका विमानानि - ग्रैवेयकानुत्तरविमानरूपाणि तेषु उपपत्तिर्यस्यां सा कल्पविमानोपपत्तिका तां, कोऽर्थः ? - अनन्तरजन्मनि कल्पादिषु देवत्वावाप्तिफलां, परम्परया तु मुक्तिप्रापिकां, आराधनां - ज्ञानाद्याराधनात्मिकामाराधयति - साधयति ( १४ ) । १६ । २८ ।
Jain Educationtional
For Private & Personal Use Only
सम्यक्त्व
पराक्रमा
ध्ययनम्
२९
त्रयोदशचतुदेशद्वारे
॥ २३८ ॥
jainelibrary.org