________________
योगेभ्योऽविशुद्धरूपं यस्यासावपृथक्त्वः सदा संयमयोगवान् , तथा सुप्रणिहितः-सुष्ठ संयमेन प्रणिधानवान् , विहरतिसंयमाध्वनि याति (११)। १३ । २५ ।
अत्र चातीचारशुद्धिनिमित्तं कायोत्सर्गः कार्य इति तमाह
काउस्सग्गेणं भंते ! जीवे किं जणेइ ?, २तीयपडुपन्नं पायच्छित्तं विसोहेइ, विसुद्धपायच्छित्ते य जीवे नियहियए ओहरियभरुव भारवहे धम्म( प्र० पसत्थ )ज्झाणोवगए (पसत्थज्झाणझाई पा०) सुहं सुहेणं | विहरइ (१२) । सू० २६।। कायस्योत्सर्गः-आगमोक्तनीत्या त्यागः कायोत्सर्गस्तेन, अतीतं चेह चिरकालभावित्वेन प्रत्युत्पन्नमिव प्रत्युत्पन्नं प्रायश्चित्ताह
द्वादशं द्वारम् मतीचारं विशोधयति तदर्जितपापापनयनतोऽपनयति, विशुद्धप्रायश्चित्तश्च जीवः, निवृतं-स्वस्थीभूतं हृदयं-मनोऽस्येति निवृत्तहृदयः, क इव ?, इवस्य भिन्नक्रमत्वात् अपहृतः-अपसारितो भरो-भारो यस्मात् सः अपहृतभारो भारवहो-वाहीकादिः स इव, भारपाया हि अतीचारास्ततस्तदपनयने अपहृतभरभारवह इव निवृतहृदयो भवतीति भावः, स च प्रशस्तध्यानोपगतः सुखं सुखेन * सुखपरम्परावाप्त्या विहरति-इह परलोकयोरवतिष्ठते, इहैव जीवन्मुक्त्यवाप्तिरिति भावः (१२)। १४ । २६ । एवमप्यशुद्ध्यमानेन प्रत्याख्यानं विधेयमिति तदाह
पञ्चक्खाणेणं भंते ! जीवे किं जणेइ ?, २ आसवदाराई निरंभइ (१३)। सू० २७ ।
4.jainelibrary.org
Jain Educati
For Private & Personal Use Only
o nal