SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ XOXOXXXXXXXXXX त्तावपि तद्भीत्यैव अप्रशस्तेभ्यः कर्मबन्धहेतुभ्यो योगेभ्यो निवर्त्तते, तान् प्रतिपद्यते प्रशस्तांश्च योगानिति गम्यं, प्रतिपद्यते, प्रतिपन्नप्रशस्तयोगश्चानगारः, अनन्तविषयतया अनन्ते ज्ञानदर्शने हंतुं शीलं येषां ते अनन्तघातिनस्तत् पर्यवान्-प्रस्तावात् ज्ञानावरणादिकर्मणस्तद्वातित्वलक्षणान् परिणतिविशेषान् क्षपयति, पर्यवाभिधानं च तद्रूपतयैव द्रव्यस्य विनाश इति ख्यापनार्थ, उपलक्षणं चैतत् मुक्तिप्राप्तेस्तदर्थत्वात् सर्वप्रयासस्य, एवमनुक्ताऽपि सर्वत्र मुक्तिप्राप्तिरेव सुफलत्वेन द्रष्टव्या (७)।९।२१ । आलोचनादीनि च सामायिकवत एव तत्त्वतो भवन्तीति तदुच्यतेसामाइएणं भंते ! जीवे किं जणेइ ?, २ सावजजोगविरई जणयइ (८)। सू० २२। सामायिकेन सावद्याः-कर्महेतवो योगाः-व्यापारास्तेभ्यो विरतिः-उपरमः सावद्ययोगविरतिस्तां जनयति, तद्विरतिसहितस्यैव सामायिकसंभवात् , न चैवं तुल्यकालत्वेनानयोः कार्यकारणभावासम्भव इति वाच्यं, केषुचित्-तुल्यकालेष्वपि वृक्षच्छायादिवत् कार्यकारणभावाद् एवं सर्वत्र भावनीयम् (८)।१०। २२ । सामायिकं च प्रतिपत्तुकामेन तत्प्रणेतारः स्तोतव्याः, ते च तत्त्वतस्तीर्थकृतः एवेति तत्स्तवमाह चउवीसत्थएणं भंते ! जीवे किं जणेइ ?, २ दंसणविसोहिं जणइ (९)। सू० २३ । चतुर्विंशतिस्तवेनैतदवसर्पिणीप्रभवतीर्थकृदुत्कीर्तनात्मकेन दर्शनस्य-सम्यक्त्वस्य विशुद्धिः-तदुपघातिकर्मापगमतो निर्मलीभवनं दर्शनविशुद्धिस्तां जनयति (९)।११ । २३ । XXXXXXXXXXXXX अष्टमनवमे For Private & Personal use only JainEducation Merry
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy