________________
उत्तरा० अवचूर्णिः
सम्यक्त्वपराक्रमाध्ययनम्
॥२३६॥
२९
आर्षत्वात् निन्दनं-आत्मनैवात्मदोषपरिभावनं तेन निन्दनेन, पश्चादनुतापं-हा कष्टमनुष्ठितमिदं मयेत्यादिरूपं जनयति, ततश्च पश्चानुतापेन विरज्यमानो-वैराग्यं गच्छन् करणेन-अपूर्वकरणेन गुणहेतुका श्रेणिः करणगुणश्रेणिः, सा चोपरितनस्थितेमोहनीयादिकर्मदलिकान्युपादायोपदाय उदयसमयात्प्रभृतिद्वितीयादिसमयेषु असङ्ख्यातगुणपुद्गलप्रक्षेपरूपान्तमौहर्तिकी, उक्तं हि| "उवरिमठिईइ दलिअं हिडिमठाणेसु कुणइ गुणसेढी । गुणसंकमकरणं पुण असुहाउ सुहमि पक्खिवइ ॥१॥” उपलक्षणत्वात् स्थितिघातरसघातगुणसङ्कमबन्धाश्च विशिष्टाः, अथवा करणगुणेन-अपूर्वकरणादिमाहात्म्येन श्रेणिः करणगुणश्रेणिः प्रक्रमात् क्षपकश्रेणिरेव तां, यद्वा करणेन-पिण्डविशुद्ध्यादिनोपलक्षिता गुणानां-ज्ञानादीनां श्रेणिः-उत्तरोत्तरगुणपरंपरारूपा करणगुणश्रेणिस्ता प्रतिपद्यते, प्रतिपन्नकरणगुणश्रेणिकश्चानगारो मोहनीयं-दर्शनमोहनीयादि कर्म उद्घातयति-क्षपयति, तत्क्षपणे च मुक्तिप्राप्तिरित्यर्थत उक्तैव स्यात् (६)। ८ । २० ।
कश्चिदात्मनोऽत्यन्तदुष्टतां विभावयन् न निन्दामात्रेणाऽऽस्ते, किं तु गर्हामपि कुर्यात् इति तामाह___ गरिहणाए णं भंते ! जीवे किं जणेइ ?, २ अपुरकारं जणेइ, अपुरकारगए णं जीवे अप्पसत्थेहितो जोगेहितो नियत्तइ पसत्थेहि य पडिवज्जइ, पसत्थजोगपडिवन्ने य णं अणगारे अणंतघाई पज्जवे खवेइ (७)। सू० २१। ।
गर्हणेन-परसमक्षं स्वदोषोद्भावनेन पुरस्करणं पुरस्कारो-गुणवानयमिति गौरवाध्यारोपो न तथा अपुरस्कार-अवज्ञास्पदत्वं जनयत्यात्मन इति गम्यं, तथा च अपुरस्कारं गतः-प्राप्तोऽपुरस्कारगतः सर्वत्रावज्ञास्पदीभूतो जीवः कदाचित्कदध्यवसायोत्प
षष्ठसप्तमद्वारे
FoXoxoxoxoxoxox
॥२३६॥
JainEducation
For Privale & Personal use only