________________
गुरुशुश्रूषां कुर्वतोऽप्यतीचारसम्भवे आलोचनात एवेष्टफलाप्तिरिति तामाह
आलोयणाए णं भंते ! जीवे किं जणेइ ?, २ मायानियाणमिच्छादरिसणसल्लाणं मुक्खमग्गविग्घाणं अणंतसंसारवद्धणाणं उद्धरणं करेइ उजुभावं च जणेइ, उजुभावं पढिवन्ने य णं जीवे अमाई इत्थीवेयं नपुंसगवेयं च न बन्धइ, पुत्वबद्धं च णं निजरइ (५)। सू० १९।
आङिति सर्वदोषाभिव्याप्त्याऽऽलोचना-आत्मदोषाणां गुरुपुरतः प्रकाशना आलोचना, तथा माया-शाठ्यं निदानं-ममातस्तपःप्रभृत्यादेरिदं स्यादिति प्रार्थनात्मकं मिथ्यादर्शनं-सांशयिकादि एतानि च मायादीनि शल्यानीव शल्यानि चमायानिदानमिथ्यादर्शनशल्यानि, यथा हि तोमरादिशल्यानि तत्कालदुःखदायीन्येवं मायादीन्यपीत्युक्तं तेषां मोक्षमार्गविघ्नानां-पापानुवन्धिकर्महेतुत्वेन मुक्त्यन्तरायाणां, तथा अनन्तं संसारं वर्द्धयन्ति-वृद्धिं नयन्तीति तेषां अनन्तसंसारवर्द्धनानां उद्धरणं-अपनयनं करोति, तदुद्धरणतश्च ऋजुभावं चार्जवं जनयति, प्रतिपन्नजुभावश्च जीवोऽमायी-मायारहितः सन् पुंस्त्वहेतुत्वादमायित्वस्य सूत्रत्वात् बिन्दुलोपे स्त्रीवेदं नपुंसकवेदं च न बध्नाति, पूर्वबद्धं च तदेव द्वयं सर्वकर्म वा निर्जरयति-क्षपयति, तथा च मुक्तिपदमामोतीत्यभिप्रायः, उक्तं हि-"उद्धियदंडो साहू अचिरेण उवेइ सासयं ठाणं । सोवि अणुद्धियदंडो संसारपवड्डओ होइ ॥१॥” इति (५)७।१९।
आलोचना च दुष्कृतनिन्दावत एव सफला स्यादिति तामाह
निंदणयाए णं भंते! जीवे किं जणेइ ?, २ पच्छाणुतावं जणइ, पच्छणुतावेणं विरजमाणे करणगुणसेटिं पडिवजह, करगुणसेढिपडिवन्ने य अणगारे मोहणिज कम्मं उग्घाएइ (६)। सू०२०।
XXXX8XOXOXOXOXXX
पञ्चमं द्वारम
Jain Educati
o
nal
For Privale & Personal use only
ainelibrary.org