SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ (प्र०नयाए) णं जीवे अणचासायणसीले नेरइयतिरिक्खजोणियमणुस्सदेवदुग्गईओ निरंभइ, वण्णसंजलणभत्तिबहुमाणयाए माणुस्सदेवसुग्गइओ निबंधइ, सिद्धिसुगइं च विसोहेइ, पसत्थाई च णं विणयमूलाई सबकजाई साहइ, अन्ने य बहवे जीवे विणइत्ता हवइ (४)। सू०१८।। OKOKOKS अवचूर्णिः सम्यक्त्वपराक्रमाध्ययनम् ॥२३५॥ २९ (DX चतुर्थं द्वारम् साधर्मिकगुरूणां शुश्रूषणं-पर्युपासनं तेन विनयप्रतिपत्ति-उचितकृत्यकरणाङ्गीकाररूपां जनयति, सूत्रत्वात् प्रतिपन्न:-अङ्गीकृतो विनयो येन प्रतिपन्नविनयः, चः पुनर्जीवोऽतीवाऽऽ-सम्यक्त्वादिलाभं शातयति-विनाशयतीत्यत्याशातनाशीलो-न तथा अनत्याशातनाशीलो गुरुपरिवादादिपरिहारकृदित्यर्थः, एवंविधश्च नैरयिकतिर्यग्योनिके च प्रतीते मनुष्यदेवदुर्गती च-म्लेच्छकिल्बिषित्वादिलक्षणे नैरयिकतिर्यग्योनिकमनुष्यदेवदुर्गतयो निरुणद्धि-निषेधति, तद्धेतोरत्याशातनाया अभावेन तत्रागमनात्, तत्र वर्णः-श्लाघा तेन संज्वलनं-गुणोद्भासनं वर्णसंज्वलनं भक्तिः अञ्जलिप्रग्राहिका बहुमान:-आन्तरप्रतिविशेषः, एषां द्वन्द्वे भावप्रत्यये च वर्णसंज्वलनभक्तिबहुमानता तया-प्रक्रमात् गुरूणां विनयप्रतिपत्तिरूपया मनुष्यदेवसुगती सुकुलैश्वर्येन्द्रत्वादि बनाति, तत्प्रायोग्यकर्मबन्धनेनेति भावः, सिद्धिसुगतिं च विशोधयति तन्मार्गभूतसम्यग्दर्शनादिविशोधनेन, प्रशस्तानि चप्रशंसास्पदानि विनयमूलादि-विनयहेतुकानि सर्वकार्याणीह श्रुतज्ञानादीनि परत्र च मुक्तिं साधयति-निष्पादयति, तत्किमेवं स्वार्थसाधक एवासावित्याह-अन्यांश्च बहून् जीवान् विनेता-विनयं ग्राहयिता भवति, स्वयं सुस्थितस्योपादेयवचनत्वात् , तथा च विनयमूलत्वादशेषश्रेयसां, तत्प्रापणेन परार्थसाधकोऽप्यसौ स्यात् (४)।६।१८।। ॥२३५॥ JainEducation.in For Private & Personal use only meibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy