SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः ॥२३४॥ तथाऽपि किमित्याह-दर्शनशुद्ध्या विशुद्ध्या-अत्यन्तनिर्मलया अस्ति-विद्यते एककः कश्चित्तथाविधो भव्यस्तेनैव भवग्रहणेन- सम्यक्त्वजन्मोपादानेन सिद्ध्यति, कोऽर्थः?-यस्मिन्नेव भवे दर्शनस्य तथाविधा शुद्धिस्तत्रैव भवे मुक्तिं गच्छति, यथा मरुदेवी-ऋषभ- पराक्रमास्वामिमाता, यस्तु न तेनैव सिद्ध्यति स किमित्याह-शुद्ध्या च प्रक्रमात् दर्शनस्य विशुद्ध्या तृतीयं पुनर्भवग्रहणं-अन्यजन्मो- ध्ययनम् पादानात्मकं नातिकामति-नातिवर्त्तते, अवश्यं तृतीयभवे सिद्ध्यतीत्यर्थः, उत्कृष्टदर्शनाराधकापेक्षयैतत् (१)।३।१५। २९ संवेगाच्चावश्यंभावी निर्वेद इति तमाहनिवेएणं भंते ! जीवे किं जणयइ ?, निवेएणं दिवमाणुस्सतिरिच्छिएसु कामभोएसुनिव्वयं हवमागच्छदार द्वितीयं द्वारम् सबविसएसु विरजइ, सविसएसु विरजमाणे आरंभपरिच्चायं करेइ, आरंभ(प्र० परिग्गह)परिच्चायं करेमाणे |संसारमग्गं वुच्छिदइ सिद्धिमग्गपडिवन्ने च हवइ (२)। सू०१६ । ___ अत आरभ्य सर्वत्र सुगमत्वात् न प्रश्नव्याख्या, निदेन-सामान्यतः संसारविरागेण कदासौ त्याज्य इत्येवंरूपेण दिव्यमानुषतैरश्चेषु सूत्रत्वात् इक्प्रत्ययो, यथासम्भवं देवादिसम्बन्धिषु कामभोगेषु निर्वेदं हवं-शीघं आगच्छन्ति यथा अलमेतैरनर्थहेतुभिरिति, तथा च सर्वविषयेषु विरज्यते-अशेषशब्दादिविषयं विरागमानोति, सर्वविषयेषु विरज्यमानश्च आरम्भः-प्राण्युपमईको व्यापारस्तत्परित्यागं करोति, विषयार्थत्वात्सर्वारम्भाणां, तत्सरित्यागं कुर्वन् संसारमार्ग मिथ्यात्वविरत्यादिरूपं व्यवच्छिनत्ति, तत्त्यागत एव तत्त्वत आरम्भपरित्यागसम्भवात् , यब्यवच्छित्तौ च सुप्राप एव सिद्धिमार्गः सम्यग्दर्शनादिरिति सिद्धिमार्गप्रतिपन्नश्च भवति (२)।४।१६। ॥ २४ Jain Educatio n al For Privale & Personal use only avjainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy