________________
साम्प्रतमिदमेव प्रतिपदं फलोपदर्शनद्वारेण व्याचिख्यासुः सूत्रकार आह
संवेगेणं भंते ! जीवे किं जणयइ ?, संवेगेणं अणुत्तरं धम्मसद्धं जणयइ, अणुत्तराए धम्मसद्धाए संवेगं हवमागच्छइ, अणंताणुबंधिकोहमाणमायालोमे खवेइ, (प्र० नवं च) कम्मं न बंधइ, तप्पच्चइयं च मिच्छत्तविसोहि काऊण दंसणाराहए भवइ, दंसणविसोहीए णं विसुद्धाए अत्थेगइया तेणेव णं भवग्गहणेणं सिझंति बुझंति विमुचंति परिनिवायंति सव्वदुक्खाणमंतं करेंति, सोहीए य णं विसुद्धाए तच्चं पुणो भवग्गहणं नाइकमंति (१)। सू० १५॥ __ संवेगेणेत्यादि त्रिसप्ततिसूत्राणि, सर्वस्य प्रयासस्य मुक्तिरेव फलं, तत्र च प्रवृत्तिरमिलाषपूर्विका, तद्रूपश्च संवेग इत्यादौ तमाहसंवेगः-मुक्त्यभिलाषस्तेन हे भदन्त-पूज्य !, जीवः किं जनयति ?-कतरं गुणमुत्पादयतीति शिष्यप्रश्नः, प्रज्ञापकः प्रतिवचनमाहसंवेगेनानुत्तरां-प्रधानां धर्मे-श्रुतधर्मादौ श्रद्धा-तत्करणाभिलाषरूपा तां धर्मश्रद्धां जनयति, तयाऽपि किमित्याह-अनुत्तरया धर्मश्रद्धया संवेगं तमेवाद्विशिष्टतरं हवंति-शीघ्रं आगच्छन्ति, तद्व्यतिरेकेण हि विषयाद्यभिलाषतो न तथाऽस्मिन्नागमनं अनुत्तरधर्मश्रद्धायां त्वन्यत्र निरभिष्वङ्गतया नान्यथात्वसम्भवः, ततोऽपि किमित्याह-अनन्तानुबन्ध्यादिक्रोधमानमायालोभान क्षपयति, तथा च कर्म प्रस्तावात् अशुभं न बध्नाति न श्लेषयति, एवमपि को गुण इत्याह-स-कषायक्षयः प्रत्ययो-निमित्तं यस्याः सा तत्प्रत्यया सैव तत्प्रत्ययिका तां, चः कर्माबन्धकत्वापेक्षया समुच्चये, मिथ्यात्वस्य विशोधनं विशुद्धिः-सर्वथा क्षयो | मिथ्यात्वविशुद्धिस्तां कृत्वा दर्शनस्य-प्रस्तावात्क्षायिकस्य सम्यक्त्वस्याराधको-निरतिचारपालनाकृत् दर्शनाराधको भवति,
प्रथमं द्वारम्
Jain Education
Bational
For Privale & Personal use only
N
w.jainelibrary.org