SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ पकश्रेण्योर्लोभाणुवेदनसमये स्यात्, अकषायं-क्षपितोपशमितकषायावस्थाभावि यथाख्यातं अर्हत्कथितस्वरूपानतिक्रमवत् , छद्मस्थस्य-उपशान्तक्षीणमोहाख्यगुणस्थानद्वयवर्त्तिनो जिनस्य वा-केवलिनः सयोम्ययोगिगुणस्थानद्वयस्थस्य, वा समुच्चये, एतदनंतरोक्तं सामायिकादि, चयस्य-राशेः प्रस्तावात्कर्मणां रिक्त-विरेकः अभावस्तं करोतीत्येवंशीलं चयरिक्तकरं चारित्रं भवत्याख्यातं, जिनादिभिरिति गम्यम् ॥ ३२.३३ ॥ १०९२-१०९३ ॥ सम्प्रति तपश्चतुर्थकारणमाह तवो अदुविहो वुत्तो, बाहिरऽन्भतरो तहा। बाहिरो छविहो वुत्तो, एवमभितरो तवो ॥ १०९४ ॥ तपो द्विविधमुक्तं-बाह्यमाभ्यन्तरं च, तत्र बाह्यं तपः षड्विधमुक्तं एवमिति यथा षड्डिधं बाह्यमाभ्यन्तरं च तथा, तत्र | बाह्यं तप उक्तम् ॥ ३४ ॥ १०९४ ॥ आह एषां मुक्तिमार्गत्वे कस्य कतरो व्यापारः-उच्यते नाणेण जाणई भावे, संमत्तेण य सहहे। चरित्तेण निगिण्हाइ (न गिण्हति० पा० ) तवेण परिसुज्झई ॥ १०९५ ॥ ज्ञानेन मत्यादिना जानाति, भावान्-जीवादीन , दर्शनेन च श्रद्धत्ते, चारित्रेण निगृह्णाति-नादत्ते, कर्मेति गम्यं, तपसा al परिशुद्ध्यति-पुरोपचितकर्मक्षपणतः शुद्धो भवति, अनेन मार्गस्य फलं मोक्ष उक्तः ॥ ३५॥ १०९५ ॥ तपाचारो ज्ञानादीनां फलानि च Jain Educat i onal For Privale & Personal use only Haldarjainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy