________________
उत्तरा०
अवचूर्णिः
॥ २३० ॥
X-CX-O-X
XCXCXC
बुद्धिरूपा अमूढदृष्टिः, चतुर्विधोऽप्ययमान्तर आचारः, बाह्यं त्वाह-उपबृंहणं उपबृंहा- दर्शनादिगुणान्वितानां सुलब्धजन्मानो यूयं युक्तं च भवादृशामिदमित्यादिप्रशंसया तत्तद्गुणपरिवर्द्धनं सा च स्थिरीकरणं च - अभ्युपगतधर्मानुष्ठानं प्रति विषीदतां स्थैर्यापादानं उपबृंहास्थिरीकरणे, वात्सल्यं -साधर्मिकजनस्य भक्तपानादिनोचितप्रतिपत्तिकरणं तच्च प्रभावना च-स्वतीर्थोन्नतिहेतुचेष्टासु प्रवृत्तिः वात्सल्यप्रभावने, उपसंहारमाह-अष्टैते दर्शनाचाराः स्युरिति शेषः, एताभिरेवाष्टभिराचर्यमाणस्यास्योक्तफलसम्पादकतेति भावः, एतच्च ज्ञानाचाराद्युपलक्षणम् ॥ ३१ ॥ १०९१ ॥
अथ चारित्रस्वरूपं विवक्षुस्तद्भेदानाह—
सामाइयऽत्थ पढमं, छेदोवट्ठावणं भवे बितियं । परिहारविसुद्धीयं सुहुमं तह संपरायं च ॥ १०९२ ॥ अकसाय अहक्खायं, छउमत्थस्स जिणस्स वा । एयं चयरित्तकरं, चारितं होइ आहियं ।। १०९३ ॥ समो-रागद्वेषरहितः प्रस्तावात् चित्तपरिणामस्तस्मिन् आयः - गमनं समायः स एव सामायिकं - सर्वविरतिरूपं तच्च द्विधाइत्वरं यावत्कथिकं च, तत्रेत्वरमाद्यान्त्यतीर्थ कृत्तीर्थयोरुपस्थानां यावत्, ततश्छेदोपस्थापनीयचारित्रभावेन तद्व्यपदेशाभावात्, यावत्कथिकं च तयोरेव मध्यमतीर्थकृत्तीर्थेषु विदेहेषु च उपस्थापनाया अभावेन तद्व्यपदेशस्य यावज्जीवमपि सम्भवात्, चः पूरणे, प्रथमं, तथा छेदः सातिचारस्य यतेर्निरतिचारस्य वा शिष्यकस्य तीर्थान्तरसम्बन्धिनो वा तीर्थान्तरं प्रतिपद्यमानस्य पूर्व पर्यायच्छेद रूपस्तद्युको स्थापना - महाव्रतारोपणरूपा यस्मिंस्तच्छेदोपस्थापनं भवेत् द्वितीयं, परिहारविशुद्धिकं तथेत्यानन्तर्ये छन्दोभङ्गभयाच्चैवमुपन्यस्तः, सूक्ष्मः -किट्टीकरणतः सम्परायः - लोभाख्यः कषायो यस्मिंस्तत् सूक्ष्मसम्परायं तच्चोपशमक्ष
Jain Education tional
For Private & Personal Use Only
मोक्षमार्ग
गत्याख्य
मष्टाविंशमध्ययनम्
२८
चारित्रस्य भेदाः
॥ २३० ॥
jainelibrary.org