________________
अन्यच्च
दर्शनाभावे
णादसणिस्स नाणं नाणेण विणा न हुंति चरणगुणा।
अगुणिस्स नत्थि मुक्खो नत्थि अमुक्खस्स निवाणं ॥ १०९०॥ नादर्शनिनो-दर्शनरहितस्य ज्ञान-सम्यग्ज्ञानं, ज्ञानेन विना-ज्ञानरहिता न भवन्ति, के ते?-चरणं च-व्रतादि गुणाश्चपिण्डविशुद्ध्यादयश्चरणगुणाः, अगुणिन इति-चरणाविनाभावित्वाद् यथोक्तगुणानामविद्यमानचरणगुणस्य नास्ति मोक्षः-सर्वकर्मक्षयलक्षणः, नास्त्यमुक्तस्य कर्मणेति गम्यं निर्वाणं-मुक्तिप्राप्तिः, इह पूर्वगाथया मुक्त्यनन्तरहेतोरपि चारित्रस्य सम्यक्त्वभावे एव भवनमिति दर्शनमाहात्म्यमुक्तं, अनया तु उत्तरोत्तरव्यतिरेकदर्शनेनाशेषगुणानां व्यतिरेकः सापेक्षत्वात् ॥ ३० ॥१०९०॥
अस्य चाष्टविधाचारसहितस्यैवोत्तरोत्तरगुणप्राप्तिहेतुतेत्यस्याष्टविधाचारमाहनिस्संकिय निकंखिय निवितिगिच्छं अमूढदिट्टी य । उवव्हथिरीकरणं वच्छल्लपभावणेऽद्रुते ॥१०९१॥ शङ्कनं शङ्कितं-देशसर्वशङ्कात्मकं तस्याभावो निःशङ्कितं, काशणं-काशितं युक्तियुक्तत्वादहिंसाद्यभिधायित्वाच्च सौगतादिदर्शना- | न्यपि सुन्दराण्येवेत्यन्यान्यदर्शनग्रहात्मकं तदभावो निष्कासितं, उभयत्र सूत्रत्वात् बिन्दुलोपः, विचिकित्सा-फलं प्रति सन्देहो, यथा किमियतः क्लेशस्य फलं स्यादुत नेति, यद्वा विदो-विज्ञाः ते च तत्त्वतः साधव एव, ततो विदां-साधूनां जुगुप्सा-किममी यतयो मलदिग्धदेहाः?, प्रामुकजलस्नानेन हि क इव दोषः स्यादित्यादिका निन्दा तदभावो निर्विचिकित्सं निर्विज्जुगुप्स वा, आर्षत्वाच्च सूत्रे एवं पाठः, अमूढा-ऋद्धिमत्कुतीर्थिकदर्शनेऽपि अवगीतमेवास्मदर्शनमितिमोहरहिता सा चासौ दृष्टिश्च
अष्टविधो दर्शनाचारश्च
For Privale & Personal use only
Jainelibrary.org