SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः मोक्षमार्गगत्याख्य| मष्टाविंशमध्ययनम् ॥२२९॥ | परिचयो वा परमार्थसंस्तवः, वा उत्तरापेक्षया समुच्चये, सुष्ठ-यथावद्दर्शितया दृष्टा-उपलब्धा परमार्था-जीवादयो यैः ते सुष्टु परमार्था-आचार्यादयस्तेषां सेवनं, इह उत्तरत्र च सूत्रत्वात् स्त्रीत्वं, वा अनुक्तसमुच्चये, ततो यथाशक्ति तद्वैयावृत्त्यप्रवृत्तिश्च, अपिः-पूर्वापेक्षया समुच्चये, दर्शनशब्दः प्रत्येकं योज्यः, ततो व्यापन्नं-विनष्टं दर्शनं येषां, यैरवाप्यापि सम्यक्त्वं कर्मोदयात् वान्तं ते व्यापन्नदर्शना-निह्नवाद्याः, कुत्सितं दर्शनं येषां ते कुदर्शनाः शाक्यादयस्तेषां वर्जनं-परिहारो व्यापन्नकुदर्शवर्जनं, मा भूदेतदपरिहारतः सम्यक्त्वमालिन्यमिति, चः समुच्चये, सम्यक्त्वं श्रद्धीयते-अस्तीति प्रतिपद्यते अनेनेति सम्यक्त्वश्रद्धानं, | सम्यक्त्वलिङ्गमित्यर्थः, प्रत्येकं च परमार्थसंस्तवादिभिरस्य सम्बन्धादेकत्वं, न च अङ्गारमईकादेरपि परमार्थसंस्तवादीनां सम्भवात् व्यभिचारिता, तात्त्विकानामेवैषामिहाधिकृतत्वात् , तस्य तथाविधानामेषामसम्भवादिति ॥ २८ ॥१०८८ ॥ सम्यक्त्वस्य लिङ्गान्युक्त्वा सम्प्रति अस्यैव माहात्म्यं दर्शयन्नाह नत्थि चरित्तं संमत्तविहूणं दंसणे उ भइयत्वं । संमत्तचरित्ताई जुगवं पुत्वं व संमत्तं ॥ १०८९॥ नास्ति न विद्यते, उपलक्षणात् नासीत् न च भविष्यति, किं तत् ? चारित्रं, कीदृग् ?-सम्यक्त्वविहीनं, यावन्न सम्यक्त्वोत्पादो न तावत् चारित्रमित्यर्थः, किमेवं दर्शनमपि चारित्रनियतमित्याह-दर्शने तुः-पुनः सति भक्तव्यं भवति वा न वा प्रक्रमात् चारित्रं, अतो न तत्तत्र नियतं, किमित्येवमत आह-सम्यक्त्वचारित्रे-युगपदेककालमुत्पद्यते इति शेषः, पूर्व वा चारित्रोत्पादात् सम्यक्त्वमुत्पद्यते, ततो यदा युगपदुत्पादस्तदा तयोः सहभावो, यदा तु पुनः तथाविधक्षयोपशमाभावतो न तथोत्पादस्तदा सत्यपि सम्यक्त्वे न चारित्रमिति दर्शने भाज्यमिति ॥ २९ ॥ १०८९ ॥ सम्यक्त्वस्य लिङ्गमाहात्म्ये ॥२२९॥ FOROKAR Jain Education For Privale & Personal use only Mainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy