________________
सङ्केपरुचिमाहअणभिग्गहियकुदिट्ठी संखेवरुइत्ति होइ नायवो । अविसारओ पवयणे अणभिग्गहिओ अ सेसेसु ॥१०८६॥
अनभिगृहीता-अनङ्गीकृता कुदृष्टिः-सौगतमतादिरूपा येन स तथा, सङ्केपरुचिरिति भवति ज्ञातव्यः, अविशारदः-अकुशल: प्रवचने-जिनशासने, अविद्यमान अभीत्याभिमुख्येन गृहीतं-ग्रहणं ज्ञानमस्येत्यनभिगृहीतः-अनभिज्ञः, चः समुच्चये, क्वेत्याह
शेषेषु-कपिलादिमतेषु, अयमों-य उक्तविशेषणः सङ्केपेणैव चिलातीपुत्रवत् प्रशमादिपदत्रयेण तत्त्वरुचिमामोति स सङ्केप| रुचिरुच्यते ॥ २६ ॥ १०८६ ॥ धर्मरुचिमाह
जो अत्थिकायधम्मं सुयधम्मं खलु चरित्तधम्मं च । सद्दहइ जिणाभिहियं सो धम्मरुइत्ति नायवो ॥१०८७॥ ___ यः अस्तिकायानां-धर्मादीनां धर्मो-गत्युपष्टम्भादिरस्तिकायधर्मस्तं, जातौ एकवचनं, श्रुतधर्म अङ्गप्रविष्टाद्यागमस्वरूपं खलुक्यालङ्कारे चस्य वाऽर्थत्वात् चारित्रधर्म वा-सामायिकादि श्रदधाति-तथेति प्रतिपद्यते जिनाभिहितं-तीर्थकृदुक्तं स धर्मरुचिरिति ज्ञातव्यो, धर्मेषु-पर्यायेषु धर्मे वा-श्रुतधर्मादौ रुचिरस्येति कृत्वा, शिष्यमतिव्युत्पादनार्थ चेत्थमुपाधिभेदेन सम्यक्त्वभेदाभिधानं, अन्यथा हि निसर्गोपदेशयोरधिगमादौ वा क्वचित्केषाञ्चिदन्तर्भाव इति भावनीयम् ॥ २७ ॥ १०८७॥
कैः पुनर्लिङ्गैरिदं सम्यक्त्वमुत्पन्नमस्तीति श्रद्धेयमित्याह
परमत्थसंथवो वा सुदिपरमत्थसेवणा वावि । वावन्नकुदंसणवजणा य संमत्तसद्दहणा ॥१०८८॥ परमाश्च ते तात्त्विकत्वेनार्थाश्च परमार्था-जीवादयस्तात्त्विकार्थास्तेषु संस्तवः-गुणोत्कीर्तनं तत्स्वरूपं पुनः पुनः परिभावनाजनित
| सङ्केप-धर्मरुचिस्वरूपम्
उत्तरा०३९
Jain Education
Lonal
For Private & Personal use only
wwmur.jainelibrary.org