________________
उत्तरा० अवचूर्णिः
मोक्षमार्गगत्याख्यमष्टाविंशमध्ययनम्
॥२२८॥
२८
___स भवति अभिगमरुचिः श्रुतज्ञानं येनार्थतः-अर्थमाश्रित्य दृष्ट-उपलब्धं, कोर्थो ?, येन श्रुतज्ञानस्यार्थोऽधिगतः स्यात्, किं पुनस्तत् श्रुतज्ञानमित्याह-एकादशाङ्गानि आचारादिनि, जातौ एकवचनं, ततः प्रकीर्णकानि-उत्तराध्ययनादीनि दृष्टिवादः-पूर्वाणि, अङ्गत्वेपि अस्य पृथग्ग्रहणं प्राधान्यख्यापनार्थ, चात् उपाङ्गादीनि औपपातिकादीनि ॥२३॥१०८३॥
विस्ताररुचिमाहदवाण सवभावा सबपमाणेहिं जस्स उवलद्धा । सवाई नयविहीहि य वित्थाररुइत्ति नायबो ॥१०८४॥ द्रव्याणां-धर्मास्तिकायादीनां सर्वभावा-एकत्वपृथक्त्वाद्यशेषपर्यायाः सर्वप्रमाणैः-प्रत्यक्षादिभिः यस्योपलब्धा यत्र यस्य प्रत्यक्षादेर्व्यापारस्तेनैव प्रमाणेन प्रतीताः सर्वैः-समस्तैः नयविधिभिः-नैगमादिभेदैरमुं भावमयममुं वायं नयभेदश्चेच्छतीति, चः समुच्चये, स विस्ताररुचिातव्यः॥ २४ ॥१०८४ ॥
क्रियारुचिमाहदसणनाणचरित्ते तवविणए सच्चसमिइगुत्तीसु । जो किरियाभावरूई सो खलु किरियाई नाम ॥१०८५॥
दर्शनज्ञानचारित्रे ततो विनये सत्या-निरुपचारिणस्ताश्च ताः समितिगुप्तयश्च सत्यसमितिगुप्तयस्तासु, यद्वा सत्यं वा-अविसंवादियोगाद्यात्मकं समितिगुप्तयश्च सत्यसमितिगुप्तयस्तासु, यः क्रियाभावरुचिः, कोऽर्थः?-दर्शनाद्याचारानुष्ठाने यस्य भावतो रुचिरस्ति स खलु निश्चितं क्रियारुचिर्नामेति प्रकाशे भण्यते इति शेषः, इह च चारित्रान्तर्गतत्वेऽपि तपःप्रभृतीनां पुनरुपादानं विशेषत एषां मुक्त्यङ्गत्वख्यापनार्थम् ॥ २५ ॥ १०८५ ॥
अभिगमविस्तारक्रिया-रुचिस्वरूपम्
6XXXXXX
॥२२८॥
Jain Educa
t
ional
For Privale & Personal use only
aw.jainelibrary.org