________________
KOK
FOXOXOXOXOXOXOXOXOXOXOXO
रुचिशब्दः प्रत्येकं योज्यः, ततो निसर्गः-स्वभावस्तेन रुचिः-तत्त्वाभिलाषरूपा अस्येति निसर्गरुचिः, उपदेशेन-गुर्वादि. कथनेन रुचिर्यस्य स उपदेशरुचिः, आज्ञया-सर्वज्ञवचनात्मिकया रुचिर्यस्य सः, रुचिशब्दस्येहापि प्रत्येकमभिसम्बन्धात् सूत्रेणआगमेन रुचिर्यस्य सः, तथा क्रिया-अनुष्ठानं, सङ्केपः-सङ्ग्रहो, धर्मः-श्रुतधादिस्तेषु रुचिरस्येति, प्रत्येकं रुचियोगात् क्रियारूचिः सङ्केपरुचिः, धर्मरुचिर्भवति विज्ञेय इति शेषः, यच्चेह सम्यक्त्वस्य जीवानन्यत्वेनाभिधानं तद्गुणगुणिनोः कथञ्चिद भेदख्यापनार्थम् ॥ १६ ॥ १०७६॥
व्यासार्थमाहभूअत्थेणाहिगया जीवाऽजीवा य पुण्णं पावं च । सहसंमुइआ आसवसंवरु रोएइ उ निसग्गो॥१०७७॥
गाथा ११, भूतः-सत्योऽर्थो-विषयो यस्य तद्भूतार्थ, ज्ञानमिति गम्यं, तेन भावप्रधानत्वाद्वा निर्देशस्य भूतार्थत्वेन सद्भूता | अमी अर्था इत्येवंरूपेण अधिगताः-ज्ञाताः येनेति गम्य, जीवाः अजीवाश्च पुण्यं पापं च, कथममी ज्ञाता इत्याह-सोपस्कारत्वात् सूत्रत्वाच्च सह आत्मना या सङ्गता मतिः सम्मतिस्तया, कोऽथः-परोपदेशं विनापि जातिस्मरणप्रतिभादिरूपया, आश्रवसंवरौ, चः अनुक्तबन्धादिसमुच्चयार्थः, तोरेवार्थत्वाद् रोचत एव-श्रद्धत एव योऽन्यस्याश्रुतत्वाद् अनन्तरन्यायेनाधिगतान जीवादीनेव निसर्ग इति-निसर्गरुचिः ज्ञेयः, स इति शेषः ॥ १७ ॥ १०७७॥
अमुमेवार्थ स्पष्टतरमेवाहजो जिणदिटे भावे चउबिहे सद्दहाइ सयमेव । एमेव नन्नहत्ति य निस्सग्गरुइत्ति नायवो ॥१०७८॥
| सम्यक्त्व
भेदा निसर्ग*रुचिस्वरूपश्च
S
Jain Educat PIPANI
For Private & Personal use only
T
w.jainelibrary.org