________________
XX
इत्थं जीवलक्षणमुक्त्वा पुद्गलानां लक्षणमाह
सधयारउज्जोओ, पभा छाया तवृत्ति वा । वण्णरसगंधफासा, पुग्गलाणं तु लक्खणं ।। १०७२ ॥
शब्दो - ध्वनिः अन्धकारं तमः, उभयत्र सूत्रत्वात् सुपोलुक्, उद्योतो- रत्नादिप्रकाशः, प्रभा - चन्द्रादिरुचिः छाया - शैत्यगुणा आतपः- रविविम्बकृत उष्णप्रकाशः, इतिशब्द आद्यर्थस्ततश्च सम्बन्धभेदादीनां परिग्रहः, वा- समुच्चये, वर्णरसगन्धस्पर्शाः, वर्णादीनां आद्यर्थेनेतिशब्देन ग्रहणेऽपि पुनरुपादानं सर्वत्रानुयायिताख्यापनार्थं, पुद्गलानां स्कन्धानां तुः पुनर्लक्षणं, एभिरेव तेषां लक्षणत्वात्, इह ध्वनेः प्रतिघातविधायित्वेन मूर्त्तत्वादन्धकारोयोतौ प्रभाणां तु चक्षुर्विज्ञानविषयत्वात् छायातपयोश्च स्पर्शविषयत्वाच्च पौगलिकत्वम् ॥ १२ ॥ १०७२ ॥
एवं द्रव्यलक्षणमुक्तम्, अथ पर्यायलक्षणमाह
एगत्तं च पुत्तं च संखा संठाणमेव य । संजोगा य विभागा य, पज्जवाणं तु लक्खणं ॥ १०७३ ।। एकत्वं भिन्नेष्वपि परमाण्वादिषु यदेको घटादिरिति प्रतीतिहेतुः सामान्यरूपं च उत्तरापेक्षया समुच्चये, पृथक्त्वम् - अयमस्मात्पृथगिति प्रतीतिहेतुः, चः सर्वत्र समुच्चये, सङ्ख्या-एकद्वावित्यादिप्रतीतिहेतुः, संस्थानं - आकारः, परिमण्डलोऽयमित्यादिधीहेतुः, एवेति पूरणे, संयोगाः - अयमङ्गुल्याः संयोग इत्यादिव्यपदेशहेतवः, विभागा-अयमतो विभक्त इति बुद्धिहेतवः, उभयत्र व्यक्त्यपेक्षया बहुवचनं, चोऽनुक्तनवपुराणत्वाद्युपलक्षकः, पर्यवाणां, तुः पूरणे, लक्षणं- असाधारणरूपं, गुणानां तु लक्षणमभिधानं रूपादिरूपाणां तेषामतिप्रतीतत्वात् ॥ १३ ॥ १०७३ ॥
Jain Education national
For Private & Personal Use Only
xoxoxoxoxoxoxoxoxoxxxx
पुद्गललक्षणं
पर्यायल - क्षणच
Fw.jainelibrary.org