________________
उत्तरा० अवचूर्णिः
मोक्षमार्गगत्याख्वमष्टाविंशमध्ययनम्
॥२२५॥
गाथा ४, गमनं-गतिः-देशान्तरप्राप्तिर्लक्षणमस्येति गतिलक्षणः, तुः पूरणे, कोऽसौ ?-धर्मो-धर्मास्तिकायः, स्थितिः-स्थानं गतिनिवृत्तिस्तल्लक्षणमस्येति स्थानलक्षणः, भाजनं-आधारः सर्वद्रव्याणां-जीवादीनां नभः-आकाशः, अवगाहः-अवकाशस्तलक्षणमस्येति अवगाहलक्षणं, तद्धि अवगाढं प्रवृत्तानां आलम्बनीभवति अनेन तस्यावगाहकारणत्वमुक्तम् ॥९॥१०६९ ॥
तथा
वत्तणालक्खणो कालो, जीवो उवओगलक्षणो। नाणेणं दसणेणं च, सुहेण य दुहेण य ॥१०७० ॥ वर्तन्ते भवन्ति भावास्तेन तेन रूपेण तान्प्रति प्रयोजकत्वं वर्त्तना सा लक्षणं-लिङ्गमस्येति वर्तनालक्षणः कालः, कोऽर्थः? यदमी शीतवातातपादय ऋतुविभागेन स्युस्तदवश्यममीषां नैयत्यहेतुना केनापि भवितव्यं, स च काल एव, तथा जीवः उपयोगो-मतिज्ञानादिस्तलक्षणं रूपं यस्यासौ उपयोगलक्षणः, मतिज्ञानादिको छुपयोगो जीवलक्षणमुच्यते, अत एव ज्ञानेन दर्शनेन च, सुखेन च-आह्लादरूपेण दुःखेन च प्रक्रमाल्लक्ष्यते इति गम्यं, न हि ज्ञानादीन्यजीवेषु कदाचिदुपलभ्यन्ते इति | कृत्वा ॥ १० ॥ १०७० ॥
लक्षणान्तरमाह
नाणं च दंसणं चेव, चरित्तं च तवो तहा। वीरियं उवओगे य, एवं जीवस्स लक्खणं ॥१०७१ ॥ वीर्य-वीर्यान्तरायक्षयोपशमसमुत्थं सामर्थ्य, उपयोगश्च-अवहितत्वं, किमित्याह-एतद् ज्ञानादि जीवस्य लक्षणं, एतेनैव हि | जीवोऽनन्यसाधारणतया लक्ष्यते इति ॥ ११॥ १०७१॥
*OXOXOXXX
धर्मादिद्रव्याणां
लक्षणानि
॥ २२५॥
can Education
For Private & Personal use only