________________
XXXXXXXXXXXXX
तुर्विशेषणे, उभयोः-द्वयोर्द्रव्यगुणयोराश्रिता भवेयुः स्युः, गुणेष्वपि नवपुराणादयः पर्यायाः प्रत्यक्षप्रतीता एव कियत्कालभाविनः, प्रतिसमयभाविनस्तु पुराणत्वान्यथानुपपत्तेरित्यनुमानतोऽवसीयन्ते ॥ ६॥१०६६ ॥
द्रव्यभेदानाहधम्मो अधम्मो आगासं, कालो पुग्गलजंतवो। एस लोगुत्ति पन्नत्तो, जिणेहिं वरदंसिहि ॥ १०६७॥ धर्म इति धर्मास्तिकायः, अधर्म इति अधर्मास्तिकायः, आकाशमित्याकाशास्तिकायः, काल:-अद्धासमयात्मकः, पुद्गलजन्तव इति पुद्गलास्तिकायः जीवास्तिकायः, एतानि द्रव्याणीति शेषः, प्रसङ्गतो लोकस्वरूपमप्याह-एष लोक इतीत्येवंस्वरूपकः, | कोऽर्थः?-- अनन्तरोक्तद्रव्यषट्वात्मकः ॥ ७॥ १०६७ ॥
एतेषामपि भेदानाह
धम्मो अधम्मो आगासं, दवं इकिकमाहियं । अणंताणि य दवाणि, कालो पुग्गलजंतवो॥ १०६८॥ द्रव्यमिति धर्मादिभिः प्रत्येकं योज्यते, एकैकमेकसङ्ख्याया एव तेषु भावादाख्यातं तीर्थकृद्भिरिति गम्यं, तत्किं कालादिद्रव्याण्यप्येवमेवेत्याह-अनन्तानि-अनन्तसङ्ख्यानि स्वगतभेदानन्त्यात् , चस्य भिन्नक्रमत्वात् , द्रव्याणि, कतमानि ?-कालपुद्गलजन्तवश्च, कालस्य चानन्त्यमतीतानागतापेक्षया ॥८॥१०६८ ॥
धर्मादीनां लक्षणान्याहगइलक्षणो उ धम्मो, अहम्मो ठाणलक्षणो। भायणं सबदवाणं, नहं ओगाहलक्खणं ॥ १०६९॥
द्रव्यष: तद्भेदाश्च
Sain Education
For Privale & Personal use only
Wjainelibrary.org