________________
उत्तरा०
अवचूर्णिः
॥ २२४ ॥
-BX
अनुमानगम्यत्वात्तेषां चस्य भिन्नक्रमत्वात् केवलं ज्ञानं, आह-नन्द्यादिषु मतिज्ञानानन्तरं श्रुतज्ञानमुक्तं तदिह किमर्थमादित एव श्रुतोपादानं ?, उच्यते-शेषज्ञान स्वरूपपरिज्ञानस्य तदधीनत्वेन प्राधान्यख्यापनार्थम् ॥ ४ ॥ १०६४ ॥
साम्प्रतं ज्ञानशब्दस्य सम्बन्धिशब्दत्वाद्येषां तज्ज्ञानं तान्याह
एयं पंचविहं नाणं, दवाण य गुणाण य । पज्जवाणं च सवेसिं, नाणं नाणीहिं देसियं ॥ १०६५ ॥ एतदनन्तरोक्तं पञ्चविधं ज्ञानं, द्रवन्ति - गच्छन्ति तांस्तान् पर्यायानिति द्रव्याणि तेषां चस्तद्गतानेकभेदसूचकः, गुणानां रूपादीनां चः प्राग्वत्, परीति - सर्वतः कोऽर्थः ? - द्रव्येषु गुणेषु सर्वेष्ववन्ति गच्छन्तीति पर्यवास्तेषां च क्रमभावि नवपुराणादीनां सर्वेषां केवलापेक्षायां तु प्रकारस्य कात्सूर्ये, प्रतिनियतपर्यायग्राहित्वात्तेषां ज्ञानं-अवबोधकं, अनेन द्रव्यादिविषयत्वं ज्ञानस्योक्तं, ज्ञानिभिः - केवलिभिः देशितं - कथितम् ।। ५ ।। १०६५ ॥
तत्र च द्रव्यादीनि किंलक्षणानीत्याह
गुणा आसओ दवं, एगदवस्सिया गुणा । लक्खणं पज्जवाणं तु, उभओ अस्सिया भवे ॥ १०६६ ॥ गुणानामाश्रयः - आधारो यत्रस्थास्ते उत्पद्यन्ते उत्पद्य चावतिष्ठन्ते प्रलीयन्ते च तद् द्रव्यं, अनेन रूपादय एव वस्तु, न तद्व्यतिरिक्तमन्यदिति ताथागतमतमपास्तं, तथा एकस्मिन् द्रव्ये स्वाधारभूते आश्रिताः - स्थिताः एकद्रव्याश्रिताः गुणा रूपादयः, एतेन द्रव्यमेवेच्छन्ति, तदन्यरूपादीन् अविद्योपदर्शितानाहुर्ये ते अपाकृताः, लक्ष्यते अनेनेति लक्षणं, पर्यवाणां
Jain Education national
For Private & Personal Use Only
*••*•*• *• -X
Foxox
मोक्षमार्गगत्याख्य
मष्टाविंशमध्ययनम्
२८
ज्ञानस्य
विषयः
द्रव्यपर्याय
स्वरूपंच
॥ २२४ ॥
jainelibrary.org