________________
REOXOXOXOXOXOXOXO-KO-Koka-koKe
ज्ञायते वस्तुतत्त्वमिति ज्ञानं, दृश्यते तत्त्वमस्मिन्निति दर्शनं, जीवादितत्त्वरुचिरूपात्मशुभभावनारूपं, चरन्ति-गच्छन्त्यनेन मुक्तिमिति चारित्रं, तपति पुरोपात्तकर्माणि क्षपणेनेति तपः-बाह्यान्तररूपं, तथा चशब्दः समुच्चये, सर्वत्र समुच्चयाभिधानं समुदितानामेव मुक्तिमार्गत्वख्यापकं, पूर्वत्र एवकारस्य मिन्नक्रमत्वात् एष एव मार्ग इति मार्गशब्दवाच्यं अस्यैव मुक्तिप्रापकत्वात् , प्रज्ञप्तः-प्ररूपितो जिनैः वरं-समस्तवस्तुव्यापितया अभिचारितया च द्रष्टुं-प्रेक्षितुं शीलमस्येति वरदर्शिनस्तैः, इह चारित्रभेदत्वेऽपि तपसः पृथगुक्तिरस्यैव क्षपणं प्रत्यसाधारणत्वमादर्शयितुम् ॥२॥१०६२॥
सम्प्रत्येतस्यैवानुवादेन फलमाह
नाणं च दसणं चेव, चरित्तं च तवो तहा । एयं मग्गमणुप्पत्ता, जीवा गच्छंति सुग्गइं॥ १०६३ ॥ एतदुक्तरूपं मार्ग-पन्थानं अनुप्राप्ता-आश्रिता जीवाः गच्छन्ति सुगति, प्रक्रमाद् मुक्तिम् ॥ ३॥ १०६३ ॥
'ज्ञानादीनि मुक्तिमार्ग'इत्युक्तमतस्तत्स्वरूपमिह वाच्यं, तच्च तद्भेदोक्तावुक्तमेव स्यादिति मत्वा 'यथोद्देशं निर्देश' इति न्यायतः पूर्व ज्ञानभेदानाह
तत्थ पंचविहं नाणं, सुअं आभिणिबोहियं । ओहियनाणं तइयं, मणनाणं च केवलं ॥ १०६४॥ तत्रेति-तेषु ज्ञानादिषु मध्ये पञ्चविधं-पञ्चप्रकारं ज्ञानं, के ते पञ्चप्रकारा? इत्याह-श्रुतं आभिनिबोधिकं अवधिज्ञानं तृतीयं, मनःशब्देन मनोद्रव्यपर्याया गृह्यन्ते तेषु तत्तत्संज्ञिविकल्पहेतुषु ज्ञानं, तानेव हि मनःपर्यायज्ञानी साक्षादवबुध्यते, न तु बाह्यान्,
XOXOXOXOXOXOXOLOXCXCXCXCX
ज्ञानादि मोक्षमार्गः ज्ञानभेदाश्च
Jain Educa
t ional
For Private & Personal use only
K
w.jainelibrary.org