________________
उत्तरा०
अथ मोक्षमार्गगत्याख्यमष्टाविंशमध्ययनम् ।
अवचूर्णिः
मोक्षमार्गगत्याख्यमष्टाविंशमध्ययनम्
॥२२३॥
| मोक्षमार्गगतेः परुपणा
अनन्तरमशठतोक्ता, इह तु तत्यवस्थितस्य न्यायप्राप्तव मोक्षमार्गगतिप्राप्तिरिति तदभिधायकमिदमध्ययनमारभ्यते, अस्य मोक्षमार्गगतिनाम| मुक्खमग्गगई तच्च(त्यं), सुणेह जिणभासियं । चउकारणसंजुत्तं, नाणदसणलक्खणं ॥१०६१ ॥ | अत्र मोक्षः-अष्टविधकर्मोच्छेदस्तस्य मार्गः-तत्प्रापणोपायस्तेन गतिः-सिद्धिगमनरूपा सा तां, कथ्यमानामिति शेषः, तथ्यांसत्यां शृणुत-आकर्णयत जिनभाषितां, चत्वारि कारणानि वक्ष्यमाणरूपाणि तैः संयुक्तां-अन्वितां तां, ननु चतुष्कारणसाध्यकर्मक्षयरूपमोक्षानन्तरभाविन्या गतेश्चतुष्कारणवतीत्वं कथं ?,-उच्यते, व्यवहारतः कारणकारणस्यापि कारणत्वाभिधानात्, अत एवानन्तरकारणस्यैव कारणत्वमित्याशङ्कापोहार्थमेतद्विशेषणोपादानं, तथा ज्ञानदर्शने-विशेषसामान्यबोधरूपे लक्षणंचिहं यस्याः सा ज्ञानदर्शनलक्षणा तां, यस्य हि तत्सत्ता तस्यावश्यम्भाविनी मुक्तिरिति निश्चीयते, अत एव चानयोमूलकारणतां दर्शयितुमित्थमुपन्यासः॥१॥१०६१॥
मोक्षमार्गमाहनाणं च दंसणं चेव, चरित्तं च तवो तहा। एस मग्गुत्ति पन्नत्तो, जिणेहिं वरदंसिहि ॥ १०६२॥
॥२२३॥
Jain Education International
For Privale & Personal use only
Ramjainelibrary.org