________________
खलुकीयमध्ययनम्
उत्तरा० अवचूर्णिः ॥२२२॥
२७
उत्पन्नपतत्राः यथा हंसाः प्रक्रामन्ति-गच्छन्ति, दिशोदिशं-दिशि दिशि, यदृच्छाविहारिणः स्युरित्यर्थः, प्रागेकप्रक्रमेऽपि यदि | बहभिधानं तदीदृशां भूयस्त्वख्यापनार्थम् ॥ १४ ॥१०५७ ॥
इत्थं खलुकास्येव समिलाभङ्गादिना दुःशिष्यस्य धृतिदुर्बलत्वादिना दुष्टत्वं, अत एव खल्वाप्तक्लमासमाधिर्यदसावचेष्टत तदाह
अह सारही विचिंतेइ, खलुंके हि समागए । किं मज्झ दुट्ठसीसेहिं ?, अप्पा मे अवसीअई ॥ १०५८ ॥ __ अथानन्तरोक्तचिन्तानन्तरं सारथिरिव सारथिः स्खलितप्रवर्तकतया गर्गाचार्यः विचिन्तयति-ध्यायति, खलुबैरिव खलुहै
दुःशिष्यैः, 'हेतौ तृतीया, श्रम-खेदमागतः-प्राप्तः श्रमागतः, ते हि दुष्टगोवदनेकधा प्रेर्यमाणा अपि सन्मार्गमनवगच्छन्तो | गुरुश्रमहेतव एव स्युरिति, यद्वा खलुकैः समागतः युतः यच्चिन्तयति तदाह-किं ?, न किञ्चिदित्यर्थः, ममैहिकमामुष्मिकं वा कार्य सिध्यतीति गम्यं, दुष्टशिष्यैः प्रक्रमात् प्रेरितः, किमित्यत आह-आत्मा मे अवसीदति, एतत् प्रेरणाव्यग्रतया स्वकृत्याकरणेन, तद् वरमेतत्त्यागत उद्यतविहारेणैव विहर्तुमिति भावः॥ १५ ॥ १०५८ ॥
अर्थतत्प्रेरणान्तराले स्वकृत्यमपि किं न क्रियते इत्याह
जारिसा मम सीसा उ, तारिसा गलिगद्दहा । गलिगद्दहे चइत्ताणं, दढं पगिण्हई तवं ॥ १०५९॥ यादृशाः तुः पूरणे तादृशा गलिगईभाः, यदि परमिति शेषः, गभग्रहणमतिकुत्साख्यापकं, ते हि स्वरूपतोऽप्यतिप्रेरणयैव प्रवर्त्तन्ते, अतस्तत्प्रेरणयैव कालोऽतिक्रामति, नतु अन्तरं यत्र स्वकार्यमपि क्रियते इति भावः, ततो गलिगईभानिव ग० दुःशिष्यान् त्यत्क्वा दृढं-बाढं प्रगृह्णाति-अङ्गीकरोति तदनुशासनरूपपलिमन्थत्यागतो गर्गनामा तपो-अनशनादि ॥ १६ ॥ १०५९ ॥
आचार्यप्रतिकूलचारीदुःशिष्याः ततो गर्गाचार्यस्य तपः
रणव विहतुमिति भावात्मा मे अवसीदति.
अर्थतत्प्रेरणान्तराले
॥२२२॥
Sain Education
ional
For Privale & Personal use only
w.jainelibrary.org