SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ इत्थं दृष्टान्तं परिभाव्य दार्शन्तिकं यथा भावयत्यसौ तथाह खलुका जारिसा जुज्जा, दुस्सीसाविहु तारिसा। जोइया धम्मजाणंमि, भजंता धिइदुब्बला ॥ १०५१ ॥ खलुङ्का उक्तस्वरूपा गावो यादृशा योज्याः-घटनीयाः, दुःशिष्या अपि, होरेवार्थस्य भिन्नक्रमत्वात् तादृशा एव, यथाहि | खलुङ्कगवाः स्वस्वामिनं क्लमयन्ति असमाधिं च प्रापयन्ति, यथा च समिलाभङ्गादिना दुष्टत्वं आदर्शयन्ति एवमेतेऽपि, किमिति ?, यतो योजिता-व्यापारिता धर्मो यानमिव मुक्तिपुरप्रापकतया धर्मयानं तस्मिन् भज्यन्ते-न सम्यक् प्रवर्तन्ते, प्राकृत त्वात् दुर्बलधृतयो धर्मानुष्ठानं प्रतीति गम्यम् ॥ ८॥ १०५१॥ धृतिदुर्बलत्वमेव तेषां भावयितुमाह इडीगारविए एगे, एगित्थ रसगारवे । सायागारविए एगे, एगे सुचिरकोहणे ॥ १०५२॥ गाथाषटुं, ऋद्ध्या गौरवं 'श्राद्धा ऋद्धिमन्तो मम वश्याः, सम्पद्यते च यथा चिन्तितमुपकरणं' इत्याद्यात्मबहुमानरूपं | | ऋद्धिगौरवं तदस्यास्तीति ऋद्धिगौरविको, न गुरुनियोगे प्रवर्तते, किमेतैर्ममेति ?, एकः-कश्चन अत्र दुःशिष्येषु रसेषु-मधुरादिषु | गौरवं-गाय यस्यासौ रसगौरवो, बालग्लानादीनां समुचिताहारदानतपोऽनुष्ठानादौ न प्रवर्त्तते, साते-सुखे गौरवं प्रतिबन्धोऽ स्यास्तीति सातगौरविक एकः, अप्रतिबद्ध विहारादौ न प्रवर्तते, एकः सुचिरक्रोधनः-प्रभूतकालकोपनशील:-एकदा कुपितः | कुपित एवास्ते, न कृत्येषु प्रवर्त्तते ॥९॥१०५२॥ गलिवृषभसदृशा दुःशिष्याः Jain Educatio n al For Privale & Personal use only
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy