________________
उत्तरा०
अवचूर्णिः
॥ २२० ॥
Jain Education
XCXCX**********OXOXOX
एकः पतति पार्श्वेन–एकगात्रविभागेन भूमौ अन्यस्तु निविशति - उपविशति, अपरश्च शेते, अपर उत्कूर्दते-ऊर्ध्वं गच्छति, उप्फिडइत्ति-मण्डूकवत् प्लवते, अन्यः शठः - शाठ्यवान् युवा कश्चिद् बालगवीम् अवृद्धां गां व्रजेत्-तदभिमुखं धावेदित्यर्थो, | यद्वा आर्षत्वात् बालगवीति व्यालगावा - दुष्टबलीवर्दो व्रजेत् - गच्छेत् अन्यत इति शेषः ॥ ५ ॥। १०४८ ॥
अन्यच्च
माई मुद्रेण पडई, कुद्धे गच्छइ पडिवहं ।
मलक्खेण चिट्ठई (पलयं (यलं) ते ण चिट्टिया पा० ), वेगेण य पहावई ।। १०४९ ।।
मायी मायावान् मूर्ध्ना - मस्तकेन पतति कोऽर्थो अतिनिस्सहमेवात्मानं दर्शयन् भुवि शिरसा लुठति, अन्यः क्रुद्धः सन् गच्छति प्रतिपथ-पश्चाद्वलति, अपरो मृतलक्ष्येण - मृतव्याजेन तिष्ठति आस्ते, कथञ्चित् प्रवणीकृतोऽपि वेगेन च प्रधावति, यथा द्वितीयो गन्तुं न शक्नोति तथा गच्छतीत्यर्थः ॥ ६ ॥ १०४९ ॥
छिन्नाले छिंदई सिलिं, दुर्द्दते भंजई जुगं । सेविय सुस्सुयाइत्ता, उज्जुहित्ता पलायई ॥ १०५० ॥ छिन्नालः–तथाविधदुष्टजातिः कश्चित् छिनत्ति-खण्डयति, सिलिं-रश्मि, संयमनरज्जुमित्यर्थः, अपरस्तु दुर्दान्तो भनक्ति युगं, सोऽपि च युगं भक्त्वा सूत्कारान् कृत्वा, तथा उज्जाहित्तात्ति प्रेर्य स्वामिनं शकटं वेतिगम्यं पलायति - अन्यतो धावति ।। ७ ।। १०५० ॥
tional
For Private & Personal Use Only
XXXXXXXXXXXXX
खलुङ्कीयम
ध्ययनम्
२७
गलिवृषभ
स्वरूपम्
॥ २२० ॥
Jainelibrary.org