________________
मानस्याचार्यादेः सुशिष्यानिति गम्यं, यद्वा योग्यान् शिष्यान् वाहयमानस्य-कृत्येषु प्रवर्त्तयत आचार्यादेः संसारोऽतिवर्त्तयतेसुखेनातिक्रामति, तद्विनीततादर्शनत आत्मनो विशेषसमाघिसम्भवादिति सम्भवः ॥२॥ १०४५ ॥ ___ इत्थमात्मनः समाधिप्रतिसन्धानाय विनीतस्वरूपं परिभाव्य स एवाविनीतस्वरूपं यथा परिभावयति तथाह
खलुंके जो उ जोएइ, विहंमाणे किलिस्सई । असमाहिं च वेएइ, तुत्तओ य से भजइ ॥ १०४६ ॥ गाथापञ्चकं, खलुकान-गलिवृषभान् यः, तुः विशेषणे, योजयति-योत्क्रयति, वहने इति प्रक्रमः, स किमित्याह-स सूत्रत्वात् विशेषेण घ्नन्-ताडयन् क्लिश्यति-क्लेशमनुयाति, अत एवासमाधि च-चित्तोद्वेगरूपं वेदयते-अनुभवति, तोत्रकश्च-प्राजनकः, से इति तस्य खलुक्योजयितुः भज्यते-अतिताडनात् भङ्गमाप्नोति ॥ ३ ॥ १०४६ ॥ __ ततश्चातिरुष्टः सन् यत्करोति तदाह
एग डसइ पुच्छंमि, एगं विंधभिक्खणं । एगो भंजइ समिलं, एगो उप्पहपढिओ ॥ १०४७॥ एक दशति-दशनैर्भक्षयति पुच्छे, एकमन्यं गलिं विध्यति-प्राजनकारया तुदति, उपलक्षणं चैतदश्लीलभाषणादीनां, अभीक्ष्णं-पुनः पुनः, अथ ते किं कुर्वन्ति येन योजयितुरेवं निर्वेदहेतव इत्याह-एकः कश्चित् खलुको-गौर्भनक्ति-आमर्दयति, समिलां-युगरन्ध्रकीलिकां, अन्यस्तामभक्त्वापि उत्पथप्रस्थितः-उन्मार्ग चलितः स्यादितिगम्यम् ॥४॥१०४७॥ तथा
एगो पडइ पासेणं, निवेसइ निविज्ञई। उकुद्दइ उप्फिडई, सढे बालगवी वए ॥१०४८॥
XOXOXOXOXOXOXOXOXOXXOXOKe
गलिवृषभस्वरूपम्
Jain Educati
o
nal
For Private & Personal use only
Yorw.jainelibrary.org