________________
उत्तरा० अवचर्णिः
सामाचार्यध्ययनम् २६
॥२१८॥
ज्ञानदर्शनादिकायोत्स
रात्री भवं रात्रिक, चः पूरणे, अतीचारं चिन्तयेत् , आनुपूर्व्या क्रमेण, किंविषयं चिन्तयेदित्याह-ज्ञाने दर्शने चारित्रे तपसि, चात् वीर्य च, शेषोत्सर्गेषु चतुर्विंशतिस्तवः प्रतीतश्चिन्त्यतया साधारणश्चेतिनोक्तः॥४७॥ १०३८॥
पारियकाउस्सग्गो, वंदित्ताण तओ गुरुं । राईयं तु अईयारं, आलोइज जहक्कम ॥ १०३९॥
पडिक्कमित्तु निस्सल्लो, वंदित्ता ण तओ गुरुं । काउस्सग्गं तओ कुज्जा, सबदुक्खविमुक्खणं ॥१०४०॥ पारितेत्यादिगाथाद्वयं प्राग्वत् व्याख्यातमेव ॥ ४८, ४९॥ १०३९, १०४०॥ कायोत्सर्गस्थितश्च किं कुर्यादित्याह
किं तवं पडिवजामि ?, एवं तत्थ विचिंतए । काउस्सग्गं तु पारित्ता, करिजा जिणसंथवं ॥ १०४१॥ किमिति किंरूपं, तपो-नमस्कारसहितादि प्रतिपद्येऽहमेवं तत्र विचिन्तयेत् , वीरो हि भगवान् षण्मासं यावन्निरशनो विहृतवान् , तत्किमहमपि निरशनः शक्नोमि एतावत्कालं स्थातुमुत नेति !, एवञ्च पञ्चमासाद्यपि यावन्नमस्कारसहितादितावत्परिभावयेत् , उत्तरार्द्ध स्पष्टम् ॥ ५० ॥१०४१॥
एतदुक्तार्थानुवादतः सामाचारीशेषमाह
पारियकाउस्सग्गो, वंदित्ताण तओ गुरुं । तवं संपडिवजित्ता, करिज सिद्धाण संथवं ॥ १०४२॥ पारियेत्यादि प्राग्वन्नवरं तपो यथाशक्तिचिन्तितं उपवासादि सम्प्रतिपद्य-अङ्गीकृत्य कुर्यात् सिद्धानां संस्तवं-स्तुतित्रयरूपं, तदनु च यत्र चैत्यानि सन्ति तत्र तद्वन्दनं विधेयम् ॥५१॥१०४२॥
गादि
IS॥२१८॥
Jain Educati
o nal
For Privale & Personal use only
jainelibrary.org