________________
कथं पुनश्चतुर्थपौरुष्यां स्वाध्यायं कुर्यादित्याहचतुर्थपौरुष्यां कालं वैरात्रिक, तुः पूरणे, प्रत्युपेक्ष्य प्रतिजागर्य उपलक्षणत्वात् गृहीत्वा च स्वाध्यायं ततः कुर्यात् , अबोधयन-अनुत्थापयन् असंयतान-अगारिणः, तदुत्थापनेन तत्तत्पापस्थानेषु प्रवर्तनसम्भवात् ॥ ४४ ॥ १०३५॥
पौरुष्याः प्रक्रमाच्चतुर्थ्याश्चतुर्भागे अवशिष्यमाणे इति शेषः, तत्र हि कालवेलायाः सम्भव इति न कालस्य क्रमणं, वन्दित्वा ततो गुरुं प्रतिक्रम्य कालस्य वैरात्रिकस्य कालं प्राभातिकं, तुर्वक्ष्यमाणविशेषद्योतकः, प्रत्युपेक्षते गृह्णीयाच्च, मध्यमप्रक्रमापेक्षं च कालत्रयग्रहणमुक्तम् , अन्यथा हि उत्सर्गत उत्कर्षेण चत्वारो जघन्येन त्रयः काला अपवादतश्चोत्कर्षेण द्वौ जघन्येनैकोऽप्य. | नुज्ञात एव, तथा चोक्तं "कालचउकं उकोसएण जहन्नओ तिन्नि हंति बोद्धया । बीअपयंमि दुगं तु मायामयविष्पमुकाणं ॥१॥" अत्र च तुशब्दादेकोऽप्यनुज्ञात एव ॥ ४५ ॥ १०३६ ॥
आगए कायवुस्सग्गे, सबदुक्खविमुक्खणे । काउस्सग्गं तओ कुज्जा, सबदुक्खविमुक्खणं ॥ १०३७ ॥ ___ आगते-प्राप्ते कायव्युत्सर्गे इत्युपचारात् कायव्युत्सर्गसमये सर्वदुःखानां विमोक्षणमर्थात् कायोत्सर्गद्वारेण यत्र स तथा तस्मिन् , यचेह सर्वदुःखविमोक्षविशेषणं पुनः पुनरुच्यते तत् कायोत्सर्गस्यात्यन्तनिर्जराहेतुत्वख्यापनाद्यर्थ, तथेह कायोत्सर्गग्रहणेन चारित्रदर्शनश्रुतज्ञानविशुद्ध्यर्थ कायोत्सर्गत्रयं ग्राह्य, तत्र च तृतीये रात्रिकोऽतीचारश्चिन्त्यते ॥ ४६॥ १०३७ ॥ तृतीये रात्रिकोऽतिचारश्च यथाविषयश्चिन्तनीयस्तथाह
राईयं च अईयारं, चिंतिज अणुपुत्वसो । नाणंमि दसणंमि, चरित्तंमि तवंमि य ॥ १०३८ ॥
कायव्युत्सर्गकृत्या कायोत्सर्गकायः
JainEducK
For Private & Personal use only
*
w.jainelibrary.org