SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः 11 80 11 MOXCXBXX यथा च कामभोगानुरागेण तं प्रतिपद्यते तथाह तड से (प्र० तओ, तोसे) दंडं समारभति, तसेसुं थावरेसु य । अट्ठाए य अणट्ठाए, भूयगामं विहिंसह ॥ १३५ ॥ ततः कामभोगानुरागात् स धार्श्ववान् दण्डं - मनोवाक्कायात्मकं समारभते - प्रवर्तयति, त्रसेषु - द्वीन्द्रियादिषु, स्थावरेषुएकेन्द्रियादिषु च, अर्थाय - प्रयोजनाय चस्य भिन्नक्रमत्वादनर्थाय च ( दृ० ३७ - यथैकोऽजापालः प्रतिदिन निरर्थकमेव वटवृक्षं सच्छिद्रं करोति, अन्यदा पराभूतराजपुत्रेण छायार्थं तत्र विश्रान्तेनामूढलक्ष्य इति ज्ञात्वा बहुद्रव्येण लोभयित्वा तत्पार्श्वान्निजभ्रातुरक्षाणि पातयित्वा तस्यैको ग्रामो दत्तः, ततोऽसौ यथेच्छं गुडतुम्वकं भक्षयन् हृष्टः सन् गायति - " अट्टमपि सिक्खिज्जा, सिक्खियं न हु निष्फलं । अट्टमट्टप्पसाएण, भुंज्जए गुडतुंवयं ॥ १ ॥” इति अनेन वच्छिद्राणि अनर्थाय भ्रातुरक्षाणि चार्थाय पातितानीत्यर्थः । तथा भूतग्रामं प्राणिसमूहं विहिनस्ति - व्यापादयति, अनेन च दण्डयव्यापार उक्तः ॥ ८ ॥ १३५ ॥ किमसौ कामभोगानुरागेण तावदेव कुरुते उतान्यदपीत्याह हिंसे वाले मुसावाई, माईले पिसुणे सढे । भुंजमाणे सुरं मंसं, सेअमेयंति मन्नइ ॥ १३६ ॥ हिंस्रः - प्राणिघाती बाल:- मूर्खः मृषावादी मायावी पिशुनः - परदोषोद्धाटकः शठो-वेषाद्यन्यथा करणेन, मण्डिकचौरवत्, भुञ्जानः सुरां-मद्यं श्रेयः- प्रशस्यतरमेतदिति मन्यते, उपलक्षणत्वाद्भाषते च - " न मांसभक्षणे दोषो, न मद्ये न च मैथुने । ” तदनेन मनसा वाचा कायेन चासत्यत्वमस्योक्तं, इत्यादि ॥ ९ ॥ १३६ ॥ Jain Educationtional For Private & Personal Use Only *GXXXXXX पश्चमम काममरणा अध्ययनम् ५ कामासक्त स्यानेकदोष सम्भवः ॥ ४० ॥ ainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy