________________
XXXXXOXOXOXOXOXOXOKax
पुनस्तद् वक्तव्यतामेवाहकायसा वयसा मत्ते, वित्ते गिद्धे य इत्थिसु । दुहओ मलं संचिणइ, सिसुनागुब्व मट्टियं ॥ १३७॥ कायसत्ति सूत्रत्वात्कायेन वचसोपलक्षणत्वात् मनसा मत्तो-दृप्तः, वित्ते-द्रविणे गृद्धो-गृद्धिमान् , चस्य भिन्नक्रमत्वात् स्त्रीषु च गृद्धः, द्विधा-द्वाभ्यां रागद्वेषाभ्यां मलं-अष्टप्रकारं कर्म संचिनोति-बध्नाति शिशुनाग इव-अलसकीट इव मृत्तिका, यथा स स्निग्धतनुतया बही रेणुभिः अवगुण्ड्यते अन्तश्च अनाति मृदं, ततश्च यथाऽसौ बहिरन्तश्चोपचितमलो रविकरैः शुष्यन् क्लिश्यति विनश्यति च, तथाऽयमप्युग्रकर्मेति ॥१०॥१३७ ॥
अथ अमुमेव स्पष्टयन्नाह
तओ पुट्ठो आयकेण, गिलाणो परितप्पई। पभीओ परलोगस्स, कम्माणुप्पेहि अप्पणो ॥ १३८ ॥ तकस्तत्को वा अष्टकर्ममलतः स्पृष्टः आतङ्केन-आशु विघातिना शूलविषूचिकादिरोगेण तत्तदुःखोदयात्मकेन वा ग्लानो-मन्दो, विषादी वा, परीति सर्वप्रकारं तप्यते-खिद्यते, प्रभीत:-प्रकर्षण त्रस्तः, सुब्व्यत्ययेन परलोकात्, कर्मानुप्रेक्षी, यत इति गम्यं, आत्मनः, हा मया न किश्चिच्छुभमाचरितं, किंतु सदैवाऽजरामरवच्चेष्टितमिति ॥ ११ ॥ १३८॥
इदमेव स्पष्टयन्नाह
सुया मे णरए ठाणा, असीलाणं च जा गती । बालाणं कूरकम्माणं, पगाढा जत्थ वेयणा ॥ १३९ ॥ श्रुतानि मया नरके स्थानानि-सीमन्तकाप्रतिष्ठानादीनि कुम्भीवैतरण्यादीनि वा, अशीलानां-असदाचाराणां या गतिर्नर
नोः प्रान्ते पश्चात्तापः
-
Jan Ede
For Privale & Personal use only
32 anesbrary.org