________________
पञ्चमम* काममरणा
ध्ययनम् ५
उत्तरा०
केषां पुनरिदं कियत्कालं वेत्याहअवचूर्णिः
बालाणं अकामं तु, मरणं असतिं भवे । पंडियाणं सकामं तु, उक्कोसेण सतिं भवे ॥१३०॥ ॥ ३९॥
बालानां-सदसद्विवेकविकलानां, तु शब्दस्यैवार्थत्वादकाममेव मरणं असकृत्-वारंवारं भवेत् , ते हि विषयाभिष्वङ्गतो मरणमनिच्छन्त एव नियन्ते, पण्डितानां-चारित्रवतां सकाममिव सकामं, मरणं प्रत्यसंत्रस्ततया, तथात्वं चोत्सवभूतत्वात्तादृशां
तन्मरणस्य, उक्तं च-"संचिततपोधननां, नित्यं व्रतनियमसंयमरतानाम् । उत्सवभूतं मन्ये, मरणमनपराधवृत्तीनाम् ॥ १॥" *न तु तेषां परमार्थतः सकामत्वं, मरणाभिलाषस्याप्यागमे निषिद्धत्वात् , उक्तं च-"मा मा हु विचिंतिजा, जीवामि चिरं मरामि
अ लहंति । जइ इच्छसि तरिउं जे, संसारमहोअहिमपारं ॥१॥" तुः पूर्वापेक्षया विशेषद्योतकः, तच्चोत्कर्षेण उत्कर्षोपलक्षितं केवलिसम्बन्धीत्यर्थः, अकेवलिनो हि संयमजीवितं दीर्घमिच्छेयुरपि, मुक्त्यवाप्तिरितः स्यादिति, सकृद्-एकवारं भवेत् , जघन्येन तु शेषचारित्रिणः सप्ताष्टवारान् भवेत् ॥ ३ ॥१३०॥ यदुक्तं "स्त इमे द्वे स्थाने" (गा० १२९) तत्राद्यमाह
तथिमं पढमं ठाणं, महावीरेण देसियं । कामगिद्धे जहा बाले, भिसं कुराणि कुव्वति ॥१३१॥ तत्र-पूर्वोक्तयोद्धयोः स्थानयोरिदं वक्ष्यमाणं प्रथममकाममरणाख्यं स्थानं महावीरेण देसिअं-श्रीवीरप्ररूपितं, कामे-इच्छामदनात्मकेषु गृद्धः-अभिकाङ्क्षावान् यथेत्युपदर्शनार्थः, बालः-अज्ञो भृशं-अत्यर्थ क्रूराणि कर्माणि हिंसादीनि करोति, क्रिययाXऽशक्तावपि मनसा कृत्वा च, प्रक्रमादकाम एव वियते ॥ ४ ॥१३१॥
XOXOXOXOKAKKEKOROXOXOXOXO
कामगृद्धानामकाम
मरणम्
॥ ३९॥
Jain Education
Monal
For Privale & Personal use only
nelibrary.org