________________
Jain Educati
॥ अथ पञ्चममकाममरणाध्ययनम् ॥
पूर्वाध्ययने 'यावच्छरीरभेद' मिति ब्रुवता मरणकालेऽप्यप्रमादः कार्य इत्युक्तं, स च मरणविभागपरिज्ञानत एव स्यादित्यनेन सम्बन्धेनायातमिदमध्ययनमवचूर्यते
अण्णवंस मोहहं (छं पा० ) सि, एगे तरइ (घं तिष्णे पा० ) दुरुत्तरे । तत्थ एगे महापण्णे, इमं पह (द्व पा० ) मुदाहरे ॥ १२८ ॥ अर्णवे-द्रव्यतो जलधौ, भावतः संसारे, महानोघः - प्रवाहो द्रव्यतो जलसम्बन्धी भावतस्तु भवपरम्परात्मको यत्र, सुव्यत्यये अर्णवान्महौघात्, दुरुत्तरात्तीर्ण इव तीर्णः - तीरं प्राप्तः, एको-घातिकर्मसाहित्यरहितः, तत्र - सदेवमनुजायां पर्षदि एकोऽद्वितीयः स च तीर्थकृदेव तत्काले, अत्रान्यस्य (त्र वा ) तीर्थकृतोऽभावात्, महती प्रज्ञा - केवलात्मिका संविद् यस्य, इमं वक्ष्यमाणं प्रश्नं- प्रष्टव्यार्थरूपमुदाहृतवान् ॥ १ ॥ १२८ ॥
यदुदाहृतवांस्तदाह
संतिमेय (ए पा० ) दुवे ठाणा, अक्खाया मारणंतिया । अकाममरणं चेव, सकाममरणं तहा ॥ १२९ ॥
प्राकृतत्वात् वचनव्यत्ययेन स्त इमे प्रत्यक्षे, चः पूरणे द्वे - द्विसंख्ये तिष्ठन्त्यनयोर्जन्तव इति स्थाने, आख्याते पूर्वतीर्थ कृद्भिः, मरणमेव-निजनिजायुःपर्यन्तस्तस्मिन् भवे मारणान्तिके, के ते? इत्याह-अकाममरणं वक्ष्यमाणं, चः समुच्चये, एवः पूरणे, सकाममरणं वक्ष्यमाणस्वरूपं तथा ॥ २ ॥ १२९ ॥
ational
For Private & Personal Use Only
XXX**********००)
अकामस
काममरणे
w.jainelibrary.org