________________
XOX
दासादीन् यथार्ह नियुञ्जयन्ती भोजयन्ती च पत्या गृहस्वामिनी कृता। तत इहैव गुणायाप्रमादो दोषाय च प्रमादः, आस्तामन्यजन्मनीति ॥ १० ॥ १२४ ॥ प्रमादमूलं च रागद्वेषाविति सोऽपायं तत्परिहारमाहमुहं मुहं मोहगुणे जयंतं, अणेगरूवा समणं चरंतं ।
फासा फुसंति असमंजसं च, न तेसु भिक्खू मणसा पउस्से ॥ १२५ ॥ मुहुर्मुहुः-वारंवारं मोहगुणा-मोहोपकारिणः शब्दादयस्तान् जयन्तं, अनेकरूपाः-परुषविषमसंस्थानादिभेदरूपाः श्रमणं-मुनि चरन्तं संयमाध्वनि स्पृशन्ति, स्वानि स्वानि इन्द्रियाणि ग्राह्यमाणतयेति, स्पर्शाः-शब्दादयः ते स्पृशन्ति-गृह्यमाणतयैव / स्पर्शादिषु सम्बध्नन्ति, असमंजसं-अननुकूलमेतक्रियाविशेषणं, चोऽवधारणे, न तेषु स्पर्शेषु भिक्षु-र्मुनिर्मनसोपलक्षणत्वाद्वचसा रागादिपरिकायेन च प्रदुष्येत्-प्रद्विष्यात, कोऽर्थः?, कर्कशसंस्तारकादिस्पादौ हन्तोपतापिता वयमेतेनेति न चिन्तयेत् न वा वदेत् हारोपायः परिहरेद्वा तमिति ॥ ११ ॥ १२५ ॥ मंदा य फासा बहुलोभणिज्जा, तहप्पगारेसु मणं न कुज्जा।
रक्खेज कोहं विणएज्ज माणं, मायं न सेवेज पहिज लोहं ॥ १२६ ॥ तथा मन्दयन्ति-विवेकिनं अपि अज्ञतां नयन्तीति मन्दाः, पूर्वापेक्षया, चः समुच्चये, स्पर्शाः-शब्दादयः, बहून् लोभयन्तिविमोहयन्तीति बहुलोभनीयाः, प्रवचनीयादित्वादनीयः, ततस्तथा प्रकारेष्वपि-मृदुस्पर्शमधुररसादिषु मनश्चित्तं न कुर्यात् , एवं |
P
For Private & Personal Use Only
Jain EducatioPAL
ainedbrary.org