SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः ॥ ३६ ॥ अमुमेवार्थ स्पष्टयन्नाह चरे पयाई परिसंकमाणो, जं किंचि पासं इह मन्नमाणो । लाभंतरे जीविय वूहइत्ता, पच्छा परिन्नायमलावधंसी ॥ १२१ ॥ चरेत् संयमाध्वनि पदानि-धर्मस्थानानि परिशंकमानः- संयमादि गणयन्- न ममेह प्रवर्तमानस्य मूलगुणमालिन्यं भविष्यतीति चिन्तयन् च, यत् किञ्चिद् अल्पमपि दुश्चिन्तितादि प्रमादपदं बन्धहेतुत्वात्पाशमिव पाशं मन्यमानो, भारण्डवत्, लाभान्तरेअपूर्वार्थप्राप्तिविशेषे सति जीवितं बृंहयित्वा वृद्धिं नीत्वा पश्चात् लाभान्तरप्राप्युत्तरकालं परिज्ञाय -अवबुद्ध्य न इदं गुणार्जकमिति ज्ञपरिज्ञया, ततः प्रत्याख्यानपरिज्ञया भक्तं प्रत्याख्याय कर्ममलापध्वंसी स्यात्, ततो यावल्लाभः तावच्छरीरं धारयेत् । अत्रोदाहरणं ( दृ० ३३ - बेनातटे लब्धपूर्णचन्द्रस्वनः क्षपणत्रयानन्तरं भिक्षाप्राप्त कुल्माषकारितसाधुपारणाक सन्तुष्ट देवतादत्तेष्टदेवदत्तावेश्या सहस्रहस्त्यादिराज्यो मूलदेवो राज्यं करोति, तत्र च मंडिकनामा सूचिकचौरो दिवापट्टकबद्धजानुः स्वमशक्तं दर्शयन् रात्रावारक्षकाद्यग्राह्यः तत्पुरं मुष्णाति, द्रव्योत्पाटकनरं नगराद् वहिर्भूमिगृहे नीत्वा पादशौचमिषाद्भगिन्याः पातयति च कूपे, अन्यदा राजा स्वयं विलोकयन् तल्लोत्रवाहकीभूय तद्गृहे गतः, तद्भगिन्याः पाद सौकुमार्यादिना कोऽपि महान् अयमिति ज्ञात्वा दत्तसङ्केतो नष्टः, चौरोऽपि पृष्ठौ धावन् क्वापि तद् भ्रान्त्या काष्ठादि खनेनाहत्य पश्चाद् गतः, ततो राज्ञा प्रातराकारितः, तद्भगिनीमुद्वाह्य स तावत्सन्मानितो यावत्सर्वस्वं गृहीतं, ततो हत इति, अत्र अयमाशयः, यथा - अकार्यकार्यपि मण्डिको यावल्लाभं मूलदेवेन धारितस्तथा धर्मार्थिनाप्यसंयमहेतुकमपि शरीरं निर्जरामभिलषता तल्लाभं यावद् धार्यमिति ॥ ७ ॥ १२१ ॥ Jain Education International For Private & Personal Use Only EXCXCXCXCXXXXXXXXX चतुर्थ सोया ध्ययनम् ४ यावल्लाभः तावच्छरीरं धार्य, मण्डिक चौरदृष्टान्तो पनयः ॥ ३६ ॥ www.jainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy