________________
सुप्तेषु द्रव्यतः शयानेषु भावतस्तु धर्मं प्रत्यजाग्रत्सु, चः पादपूरणे, अपिः सम्भावने, ततोऽयमर्थः - सुप्तेष्वप्यास्तां जाग्रत्सु किमित्याह-प्रतिबुद्धः-प्रतिबोधवान् द्रव्यतो जाग्रद्भावतस्तु यथावस्थितवस्तुतत्त्वमवगच्छन् जीवतीत्येवंशीलः प्रतिबुद्धजीवी । अत्रोदाहरणं (दृ० ३२ ) यथा
उज्जयिन्यां अमोघरथो नामा रथिकः, तत्पत्नी यशोमती, तयोः पुत्रः अगडदत्तः, सः अन्यदा पितृमरणानन्तरं मात्रादेशात् कौशाम्ब्यां विद्यार्थं गतः, तत्र च शिक्षितसकलविद्यो राज्ञोऽग्रे कृतसप्तादिनमध्यमहाचौर कर्षणप्रतिज्ञः, पुराद्बहिः सहकारमूलोपविष्टः, त्वां धनेश्वरं करोमीति वदन्तं परिव्राजकं तादृग्लिंगैश्चौरमिति ज्ञात्वा तमाश्रितो, रात्रौ एकस्मिन्निभ्यगृहे क्षात्रेण बहुद्रव्यं नीत्वा, पुरात् बहिरागत्य, हृतद्रव्योत्पाटकनरे परिव्राजकेनाऽसिना हतेऽसिं गृहीत्वा श्मशानासन्नगृहे मद्भगिनीसमीपे गच्छ सा ते पत्नी भविष्यतीति परिव्राजकेनोक्ते तत्र गतः, तत्संस्तीर्णशय्यायामुपविश्य तस्यां व्याक्षिप्तायां जाग्रदेवाविश्वसन् तत उत्थाय स्तम्भांतरस्थः शय्यायां शिलापातं दृष्ट्वा हा दुष्टे ! मां घातयितुं इच्छसीत्युक्ते तां शरणागतां मुक्त्वा चौरसर्वस्वं गृहीत्वा राजाऽग्रे गतः पूजितो राज्ञा पौरलो कैश्चैवमन्यैरपि द्रव्यतो भावतश्च जाग्रद्भिरेव स्थेयं, एवंविधश्च किं कुर्यादित्याह-न विश्वस्यात् प्रमादेऽपि, पण्डितः, आशु कृत्येषु प्रवर्त्तितव्यमिति प्रज्ञा - बुद्धिरस्येति सः, यतो घोराः प्राणिप्राणापहारकत्वात् मुहूर्ताः - कालविशेषाः दिवसाद्युपलक्षणं चैतत्, शरीरं चावलं न मृत्युदायिमुहूर्त्तान् प्रति सामर्थ्यवत्, ततो भारुण्डपक्षीव अप्रमत्तःप्रमादरहितः त्वं चर - विहितानुष्ठानमासेवस्व, अन्यथा यथा भारुण्डपक्षिणः - अन्तर्वर्त्तिसाधारणचरणाः, एकोदराः, पृथगूग्रीवाः, अन्यान्यफलकाङ्क्षिणः प्रमत्ता विनश्यन्ति तथा तवापि प्रमाद्यतः संयमजीवितात् भ्रंशः ॥ ६ ॥ १२० ॥
Jain Education national
For Private & Personal Use Only
सदा जाम
तैव भाव्य[मित्यत्रागडदत्तोदा०
Jainelibrary.org