________________
उत्तरा अवचूर्णिः ॥ ३४ ॥
चतुर्थमसङ्ख्येयाध्ययनम्४
सती मैषा चेटकाग्रे रत्नानि प्रकाशयतु इति हिंसित्वा तत्रैवावटे प्रक्षिपति, एवं कालो याति, अन्यदा तेनैका कन्या परिणीता, प्रसूतापि सा अतिसुरूपत्वान्न मारिता, बालके अष्टवर्षे जाते सति सा मारिता, ततो बालो गृहान्निर्गत्य आराटिं करोति, अनेन मम माता मारितेति, ततो राजपुरुषैहीतो, राजपाचे नीतः, शूलायामारोपितः, एवं धनमिहैवानर्थहेतुः॥२॥११६ ॥ इदानी कर्मणामवन्ध्यतामाहतेणे जहा संधिमुहं गहीए, सकम्मुणा किच्चइ पावकारी ।
एवं पया पिच्छ इहं च लोए, कडाण कम्माण न मोक्खो अत्थि ॥ ११७ ॥ स्तेनः-चौरः, यथा सन्धिमुखे-क्षात्रद्वारे गृहीतः, स्वकर्मणा-स्वानुष्ठानेन कृत्यते, सम्प्रदायः-एकस्मिन् पुरे एकश्चौरः फलकचितगृहे कपिशीर्षाकृतिक्षात्रे प्रक्षिप्तपादोऽन्तःस्थगृहेशेन बहिस्स्थचौरेण कृष्यमाणः स्वकृतक्षात्रकपिशीश्छिद्यमानश्च स विललापेति, एवममुनवोदाहरणदर्शनन्यायेन प्रजाः-प्राणिनः, तथाविधवाधानुभवनेन प्रेत्य-परभवे इहलोके च कृतानां कर्मणां न मोक्षोऽस्ति ॥ ३ ॥ ११७॥
इहकृतकर्मणामवन्ध्यत्वमुक्तं, तत्र च कदाचित्स्वजनतः एव तन्मुक्तिर्भविष्यति, अमुक्तौ वा धनादिवत् विभज्यैवामी भोक्ष्यन्ते इति मन्ये, तत आहसंसारमावन्न परस्स अट्ठा, साहारणं जं च करेइ कम्मं ।
कम्मस्स ते तस्स उ वेयकाले, न बंधवा बंधवयं उर्वति ॥ ११८ ॥
कृतकर्मणामवन्ध्यता
Jain Education
For Private & Personal use only
library