________________
चतुर्थमसोयाध्ययनम् ४
उत्तरा० अवचूर्णिः
॥ अथ चतुर्थमसङ्ख्याध्ययनम् ( चतुर्थमसंस्कृताध्ययनम् ) ॥ दुर्लभचतुरङ्गीं प्राप्य प्रमादाप्रमादौ हेयोपादेयाविति सम्बन्धायातं प्रमादाप्रमादमिति नामाध्ययनमाहअसंखयं जीविय मा पमायए, जरोवणीयस्स हु नत्थि ताणं ।
एवं वियाणाहि जणे पमत्ते, कन्नु विहिंसा अजया गहिति ॥ ११५ ॥ असंस्कृतं-शक्रशतैरपि त्रुटितस्य सतो वर्द्धयितुमशक्यत्वाद् जीवितं, ततो मा प्रमादीः, कुतो ? जरयोपनीतस्य प्रक्रमाद् मृत्युसमीपं नीतस्य, हुर्यस्मान्नास्ति त्राणं, एतं प्रागुक्तमर्थ विजानीहि-अवबुध्यस्व, जरोपनीतस्य नास्ति त्राणं येन पुनयौवनमानीयते । अत्र दृष्टान्तो (६० १८) यथा
उज्जयिन्यां जितशत्रुराज्ञः, अट्टनो मल्लो, बहुशो राजधानीषु बहूपार्जितद्रव्यो वार्धक्ये विमुक्तनियुद्धव्यापारः, एष न कस्यापि कार्यस्य क्षम इति स्वजनैः परिभूयमानः कोशाम्ब्यां वर्षमेकं रसायनमुपजीव्य महाबलिष्ठीभूय युद्धमहे सर्वमल्लान् जित्वा कुतश्चिद्राज्ञो बहुद्रव्यं प्राप्नोति स्म, ततः सर्वोऽपि स्वजनवर्गो द्रव्यलोभेन तत्पार्श्वमागतः, ततोऽसौ चिन्तयति
सम्पति एते द्रव्यलोभेनाश्रिताः, पुनरपि मां परिभविष्यन्ति, जरार्तश्चाहं न पुनर्युवा कर्तुं शक्यो महोद्यमेनापि, ततो यावदXद्यापि सचेष्टः तावत्प्रव्रजामीति प्रबजितः ।।
*atokokoXaxeXXXXXXX
अत्राणेऽट्टनमल्लकथा
॥३३॥
JainEducation.indFRI
For Privale & Personal Use Only