SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ अर्पिता :- प्राक् पुण्येन ढौकिता इव देवानां कामा- देवाङ्गनास्पर्शादयः सूत्रत्वात् कामरूपविकरणा-यथेप्सितरूपाभिनिर्वर्त्तनशक्तिसमन्विताः, ऊर्ध्वमुपरिकल्पेषु सौधर्मादिषु, उपलक्षणया ग्रैवेयकानुत्तरेषु तिष्ठन्ति - आयुःस्थितिमनुपालयन्ति, पूर्वाणि बहूनि - असङ्ख्येयानि एवं वर्षशतान्यपि बहूनि पूर्ववर्षशतायुषामेव चरणयोग्यत्वेन विशेषतो देशनौचित्यज्ञापनार्थमित्थमुपन्यासः ॥ युग्मं १५ ॥ १०९ ॥ तत्किमेषामेतावदेव फलमित्याशङ्कयाह तत्थ ठिच्चा जहाठाणं, जक्खा आउक्खए चुया । उवेंति माणुस जोणिं, से दसंगेऽभिजाय ॥ ११० ॥ तत्र- ऊर्ध्वकल्पेषु स्थित्वा, यथास्थानं - यद्यस्य स्वानुष्ठानानुरूपमिन्द्रादिपदं तस्मिन्, यक्षाः - सुरा आयुःक्षये च्युता उपयान्ति आयान्ति मानुषीं योनिं तत्र से इति स कश्चिद् दशाङ्गानि वक्ष्यमाणानि अस्येति दशाङ्गोऽभिजायते, एकवचननिर्देशः कश्चिन्नवाङ्गादिरपि जायते इति ज्ञापनार्थः ॥ १६ ॥ ११० ॥ कानि पुनर्दशाङ्गानीत्याह Jain Educationational वित्तं वत्थु हिरणं च, पसवो दासपोरुसं । चत्तारि कामखंधाणि, तत्थ से उववज्जइ ॥ १११ ॥ मित्तवं नाइवं होइ, उच्चागोत्ते अ वण्णवं । अप्पायंके महापण्णे, अभिजाय जसो बले ॥ ११२ ॥ क्षेत्रं-ग्रामादि सेतुकेतूभयात्मकं वा, वास्तु खातोच्छ्रितोभयात्मकं, हिरण्यं सुवर्ण, उपलक्षणात् रूप्यं धनधान्यादि च, For Private & Personal Use Only X-axoxoxoxoxoxoxoxoxoxoxox धर्म फलानि क्षेत्रादि दशाङ्गानि jainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy