SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ एतन्त्रयावाप्तावपि संयमवीर्यदुर्लभत्वमाह सुई च लडं सडं च, बीरियं पुण दुल्लहं । बहवे रोयमाणाऽवि, नो एणं पडिवजए ॥ १०४॥ श्रति चान्मनुष्यत्वं च प्राग्वल्लब्ध्वापि-प्राप्यापि श्रद्धां च वीर्य च प्रक्रमात् संयमविषयं, पुनःशब्दस्य विशेषकत्वात विशेषेण दर्लभं यतो बहवो रोचमानाः-श्रद्दधाना अपि नो चेति चशब्दस्यैवकारार्थत्वान्नैव, णमिति वाक्यालङ्कारे, अथवा सूत्रत्वान्नो एनं-धर्म प्रतिपद्यन्ते, चारित्रमोहनीयकर्मोदयतः कृष्णश्रेणिकसत्यकादिवत्, न कर्तुमभ्युपगच्छन्तीति ॥१०॥१०४॥ सम्प्रति दुर्लभस्य अस्य चतुरङ्गस्य फलमाह माणुसत्तंमि आयाओ, जो धम्मं सोच सद्दहे । तवस्सी वीरिअं लड़े, संवुडो निझुणे रयं ॥ १०५॥ मानुषत्वे-मनुजत्वे, आयातः-आगतः सन् य इत्यनिर्दिष्टस्वरूपो यः कश्चित् धर्म श्रुत्वा श्रद्धत्ते, तपस्वी निदानादिविर| हितः प्रशस्यतपोऽन्वितः, वीर्य-संयमोद्योग लब्ध्वा संवृतः-स्थगिताश्रवो निधुनोति-अपनयति, रजः कर्म बध्यमानं बद्धं च, तदपनयनाच मुक्तिं प्रामोतीति भावः ॥ ११ ॥ १०५॥ इत्थमामुष्मिकं फलमुक्त्वा इदानीमिहैव फलमाहसोही उजुअभूयस्स, धम्मो सुद्धस्स चिट्टई । निव्वाणं परमं जाइ, घयसित्तेव पावए ॥ १०६॥ शुद्धिः-कषायकालुष्यापगमो भवतीति गम्यते, कत्य ?, ऋजुकभूतस्य चतुरंगप्राप्तया मुक्तिं प्रति प्रगुणीभूतस्य, तथा च धर्म:-क्षान्त्यादिः शुद्धस्य-शुद्धिप्राप्तस्य तिष्ठति-अविचलतयाऽऽस्ते, निर्वाण-जीवनमुक्तिं-"अमरोवमं जाणि अ सुक्खमुत्तम दुर्लभानां चतुरङ्गानां फलम् उत्तरा०६ Jain Education For Privale & Personal use only ARRjainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy