________________
॥ अथ तृतीयं चतुरङ्गीयाध्ययनम् ॥
XXXXXXXXXXXXX
इहानन्तराध्ययने परीषहसहनमुक्तं, तच्च किमालम्बनमालम्ब्य कर्त्तव्यमिति प्रश्ने मानुषत्वादिचतुरंगदुर्लभत्वमालम्बनमित्युत्तरमनेन सम्बन्धेनायातं चतुरङ्गीयं व्याख्यायते
चत्तारि परमंगाणि, दुल्लहाणीह जंतुणो। माणुसत्तं सुई सद्धा, संजमम्मि य वीरियं ॥ ९५ ॥ चत्वारि परमाण्यासन्नोपकारित्वादङ्गानि मोक्षकारणत्वात् , प्रक्रमात् धर्मस्य, दुर्लभानि, इह-संसारे जन्तोः-प्राणिनः, कानि पुनस्तानि ?, मानुषत्वं, श्रुतिः-धर्मश्रवणं, श्रद्धा-धर्मेच्छा, संयमे-आश्रवविरमणात्मके, चः-समुच्चये, भिन्नक्रमः, ततो वीर्यसामर्थ्यम् ।। १॥९५॥
तत्र मानुषत्वदौर्लभ्यमाहसमावन्ना ण संसारे, नाणागोत्तासु जाइसु । कम्मा नाणाविहा कद्द, पुढो विस्संभिया पया ॥ ९६ ॥ समिति-समन्तात् , आपन्नाः-प्राप्ताः, णेति वाक्यालङ्कारे, क?, संसारे, नानागोत्रासु-नानाभिधासु जातिषु-क्षत्रियादिषु कर्माणि-ज्ञानावरणीयादीनि-नानाविधानि कृत्वा पुढोत्ति-पृथगेकैकशो, बिन्दोरलाक्षणिकत्वात् विश्वभृतो-जगत्पूरकाः, सन्ति इति गम्यं, यतः-"वालाग्रमपि तन्नास्ति, यन्न स्पृष्टं शरीरिभिः" काः?, प्रजाजनसमूहरूपाः, तेन प्राप्तनरत्वानामपि कर्मवशाद्वि
दुर्लभानि चत्वारि परमाङ्गानि
Jain Educati
o
n
For Privale & Personal use only
Anjainelibrary.org