SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ KoKOKeXOKEKOKEKOK-XKO-KOKOM गंगाकले द्वौ भ्रातरौ प्रवजिती, एको बहुश्रुतोऽन्यश्चाल्पश्रुतः, तत्र योऽसौ बहुश्रुतः सोऽल्पश्रुतं समाधिना स्वपन्तं दृष्ट्वा अहोऽहं निष्पुण्यो, योऽहर्निशमध्यापयन् स्वपितुमपि न शक्नोमि इति विचिन्त्य ज्ञानावरणीयं बवा स्वर्गतः, तत आभीरगृहे असगडापिता जातो, वैराग्यात्प्रव्रजितो, यावत्रीण्युत्तराध्ययनान्यधीतवान् तावत्पूर्वबद्धज्ञानावरणीयोदयात्तस्याचाम्लान्येव कुर्वतो द्वादशवरसङ्येयाध्ययनं न पारं गतं, तदपि न विक्लवो जातः, ततो द्वादशवर्षान्ते तस्यैवमविक्लवतयाऽज्ञानपरीषहं सम्यगधिसहमानस्य केवलज्ञानं समुत्पन्नमित्येवं सोढव्यः, अज्ञानाभावपक्षे, यथा-स्थूलभद्रस्वामी विहरन् बालमित्रद्विजगृहे गतः, पृष्टवांस्तत्र भार्या, क्वामुको गत ? इति, तयोक्तं-वाणिज्यार्थ, ततः स्वामी स्तम्भमूलस्थितं निधिं पश्यन् स्तम्भाभिमुखं हस्तं कृत्वा "इदमीदृशं तच्च तादृश” मिति भणित्वा गतः, ततो गृहागतस्य द्विजस्य तद्भार्यया स्वामिवचो निवेदितं, तेन पण्डितेन > ज्ञातं, यथाऽवश्यं किञ्चिदस्ति, ततः खनिते लब्धो नानारत्नसुवर्णभृत् कलशः, एवं स्थूलभद्रवत् न सोढव्यः॥ ४३ ॥ ९१।।। साम्प्रतमज्ञानाद्दर्शनेऽपि कश्चित्संशयीतेति तमाह त्थि नूणं परे लोए, इड्डि वावि तवस्सिणो। अदुवा वंचिओमित्ति, इइ भिक्खू न चिंतए ॥१२॥ नास्ति नूनं परो लोको-जन्मान्तरं भूतात्मकत्वात् , शरीरस्य चेहैव पातात् , चैतन्यस्य च भूतधर्मत्वात् , ऋद्धिर्वा-तपोमाहात्म्यरूपा आमोषध्यादिः, अपिः पूरणे, तपस्विनः, अथवा किं बहुना, वञ्चितोऽस्मि, भोगानामिति गम्यते, इतीत्यमुनाशिरस्तुण्डमुण्डनोपवासादिना, इति भिक्षुर्न चिन्तयेत् ॥ ४४ ॥ ९२॥ अभू जिणा अस्थि जिणा, अदुवावि भविस्सई । मुसं ते एवमाहंसु, इइ भिक्खू न चिंतए ॥१३॥ अज्ञानपरीषहे कथानकम् Jain Educationa lional For Private & Personal use only Snjainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy