________________
उत्तरा०
अवचूर्णिः
॥ २५ ॥
Jain Education
xoxoxoxox
मथुरायामेकः श्रेष्ठी श्राद्धो गवाक्षाधः प्राप्तसाधोरुपरि लंबितांहिमिन्द्रदत्तपुरोहितं दृष्ट्वा कृततत्पादच्छेदप्रतिज्ञः छिद्रमलभमानोऽन्यदाऽऽचार्यान् वंदित्वा निजप्रतिज्ञां कथितवान् ततस्तैरुक्तं यदा राजा पुरोहितनव्यकारितगेहे भुक्त्यर्थ प्रवेशं करोति तदा त्वया करे धृत्वा राज्ञो ज्ञाप्यं, यथैष वासः पतिष्यति, तदा चास्माभिः स्वविद्यया पातयिष्यते, ततस्तेन श्राद्धेन तथैव कृतं, ततश्च शीघ्रमेवावासं पतितं दृष्ट्वा क्रुद्धो राजा पुरोहितं श्रेष्ठिन एवार्पितवान् ततः श्रेष्ठी तत्पादं छेदितमिव कृत्वा स्वप्रतिज्ञा पूरणाय कणिक्कमयं कृत्वा चिच्छेद, श्रेष्ठिवन्न न सोढव्यः, किंतु साधुवत्सोढव्यः ॥ ३९ ॥ ८७ ॥
पूर्वोक्तपरीपहान् जयतोऽपि कस्यचिज्ज्ञानावरणीयस्योदयात्प्रज्ञाऽपकर्षे तदपगमात् तदुत्कर्षे च वैक्लव्योत्सेक सम्भव इति प्रज्ञापरीवहः तत्परीषहमाह
से नूर्ण मए पुत्र, कम्माऽनाणफला कडा । जेणाहं नाभिजाणामि, पुट्ठो केणइ कण्हुई ॥ ८८ ॥ शब्दोऽथार्थे, स चोपन्यासे, नूनं निश्चितं मया पूर्व - प्राक् कर्माणि अज्ञानं - अनवबोधस्तत्फलानि ज्ञानावरणरूपाणि कृतानि - ज्ञाननिन्दाभिरुपार्जितानि येन हेतुनाऽहं नाभिजानामि पृष्टः केनचित् कस्मिंश्चिज्जीवादी सुगमेऽपि ॥ ४० ॥ ८८ ॥
आह
अह पच्छा उइजंति, कम्माऽनाणफला कडा । एवमासासि अप्पाणं, णचा कम्मविवागयं ॥ ८९ ॥ यदि पूर्व कृतानि कर्माणि किं न तदैव वेदितानि ? उच्यते, अथ - वाच्यान्तरोपन्यासे, पश्चाद्-अबाधोत्तरकालमुदीर्यन्तेविपच्यन्ते कर्माण्यज्ञानफलानि कृतानि, तथाविधद्रव्यसाचिव्यादेव तेषां विपाकदानात्, ततस्तद्विघातायैव यत्नो विधेयो न तु
EXCXCXCXXXXXX
For Private & Personal Use Only
परीपहा
ध्ययनम्
॥ २५ ॥
jainelibrary.org