SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ उत्तरा० ५ Jain Education •CXCXX एव कायात्सर्ग कुर्वन् देवतया अतिसुगन्धः कृतः, तथाप्युड्डाहे कायोत्सर्गात्सहजगन्धः कृतः, तेन मलपरीपहा न सोडः, एवमन्यैर्न कार्यमिति ॥ ३७ ॥ ८५ ॥ समलश्च शुचीन् सत्क्रियपुरस्क्रियमाणान् दृष्ट्वा सत्कारपुरस्काराभ्यां स्पृहयेदिति तत्परीषहमाह अभिवायणमन्भुट्टाणं, सामी कुज्जा निमंतणं । जे ताई पडिसेवंति, न तेसिं पीहए मुणी ॥ ८६ ॥ अभिवादनं - शिरोनमनादि, अभ्युत्थानं - आसनमोचनादि, स्वामी - राजादिः कुर्यान्निमन्त्रणं भिक्षाद्यर्थमिति शेषः, ये स्वयूथ्याः यूथ्या वा तानि अभिवादनादीनि प्रतिसेवन्ते - आगमनिषिद्धान्यपि भजन्ते न तेभ्यः स्पृहयेन्मुनिः, यथा सुलब्धजन्मानोऽमी य इत्थं सत्क्रियन्ते ॥ ३७ ॥ ८६ ॥ किंच अणुसाई अपिच्छे, अन्नाएसी अलोलुए। रसेसु नाणुगिज्झिज्जा, नाणुतपेज पण्णवं ॥ ८७ ॥ अनुत्कः - अनुत्कण्ठितः सत्कारादिषु शेते इत्येवंशीलोऽनुक्तशायी, अणुकषायी वा सत्काराद्य कुर्वते कोपरहितस्तत्सम्पन्नावमानः, न वा तदर्थमातपनादिच्छद्मकारी, अत एवाऽल्पेच्छः - अल्पमात्रेच्छः, अज्ञातैषी अलोलुपः - सरसाहारेषु न लाम्पट्यवान्, रसेषु - मधुरादिषु न अनुगृध्येत - अभिकाङ्क्षां कुर्वीत, रसगृद्धिवर्जनोपदेशश्च तद्गृद्धित एवाज्ञानामभिवादनादिस्पृहासम्भवात्, तथा नानुतप्त सत्काराद्यर्थं, किमहमेषां नृपत्यादिसत्क्रियमाणानां मध्ये न प्रत्रजित इति, प्रज्ञा- हेयोपादेयविवेचनात्मिका मतिरिति प्रज्ञावानिति, अनेन सत्कारकारिणि तोषं न्यत्कारकारिणि च द्वेषमकुर्वताऽयं सोढव्य इति । अत्रोदाहरणं - ( दृ०२५ ) ional For Private & Personal Use Only FOXDXOXOXXX-***** सत्कार पुरस्कारपरीषहः ainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy