________________
उत्तरा० अवचूर्णिः
परीपहाध्ययनम् २
॥२४॥
मलपरीषहः
*XXXXXXXXXX
यथा श्रावस्त्यां जितशत्रुनृपपुत्रो भद्रर्षिः प्रव्रज्य वैरिराज्ये विहरन् हेरकोऽयमपि भ्रान्त्या नृपनरैधृतोऽब्रुवन् अनार्यैः क्षारेण तक्षित्वा शितकुशैर्वेष्टयित्वा मुक्तः, स तद्वेदनामधिसेहे, एवं शेषसाधुभिरप्यधिसह्यः॥ ३५ ॥ ८३॥ तृणानि च मलिनान्यपि कानिचित् स्युरिति तत्सम्पर्कात् स्वेदेन विशेषेण जल्लसम्भव इति तत्परीषहमाह
किलिन्नगाए मेहावी पंकेण व रएण वा। प्रिंसु वा परािवेतणं सायं नो परिदेवए॥८४॥ क्लिन्नं-बाधितं गात्रमस्येति, स मेधावी - अस्मानमर्यादावर्ती पङ्केन - स्वदामलिनरजसा-तेनैव काठिन्यं गतेन पांशुना वा ग्रीष्मे, वाशब्दाच्छरदि वा, परितापेन सात-सुखमाश्रित्येति शेषः, नो परिदेवेत, कदा मम मलदिग्धदेहस्य सुखानुभावः स्यादिति नो प्रलपेत् ॥ ३६ ॥ ८४ ॥
वेइज्ज निज्जरा पेही आरियं धम्मणुत्तरं । जाव सरीर भेओ त्ति जल्लं कारण धारए ॥ ८५॥ वेदयेत - सहेत जलजं दुःखमिति प्रक्रमः, कीदृशः सन्नित्याहनिर्जरणं निर्जरा-कर्मणामात्यन्तिकः क्षयस्तमपेक्षते - कथमसौ स्यादित्यभिलषतीति निर्जरापेक्षी क एवं कुर्यादित्याह-आर्य | धर्म-श्रुतचारित्ररूपमनुत्तरं प्रपन्न इति शेषः, यावच्छरीरस्य भेदो-विनाशस्तं, यावज्जीवमित्यर्थः, जलं-मलं कायेन धारयेत् अत्रोदाहरणं-(१० २४) __ यथा चम्पायां सुनन्दो वणिग् आपणे भेषजार्थागतसाधुमलगन्धेन दूनः, अहो असुन्दरं साधूनां यन्मलोद्वर्तनमिति चिन्तयन्ननालोच्यैव स्वर्गत्वा कोशाम्ब्यामिभ्यपुत्रो जातो, धर्म श्रुत्वा प्रव्रजितः, तत्कर्मोदयादतिदुर्गन्धः, उड्डाहभयादुपाश्रय
२४॥
Jain Education International
For Privale & Personal use only
www.jainelibrary.org