SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Jain Education या प्रवृत्तस्य कदाचिद् लाभान्तरायदोषतो न लभेतापीत्यलाभपरीषहमाह परेसु घासमेसिजा भोगणे परिणिट्टिए । लद्धे पिंडे अलद्वे वा नाणुतप्पिज्ज संजए ॥ ७८ ॥ परेषु - गृहस्थेषु ग्रासं कवलमेषयेद् - गवेषयेत्, भोजने - ओदनादौ परिनिष्ठिते सिद्धे सति मा भूत् प्रथमगमनात्तदर्थ पाकादिप्रवृत्तिः, ततश्च लब्धेऽपि स्वल्पे अनिष्टे वा प्राप्ते आहारे अलब्धे - अप्राप्ते वा नानुतप्येत संयतः, यथा अधन्योऽहं न किञ्चिद लभे, उपलक्षणत्वालब्धेऽपि लब्धिवानहमिति ॥ ३० ॥ ७८ ॥ न हृष्येतेत्याह अज्जेवाहं न लग्भामि अवि लाभो सुए सिया । जो एवं पडिसंविक्खे अलाभो तं न तज्जइ ॥ ७९ ॥ अद्यैवाहं न लभे अपि, सम्भावने सम्भाव्यते, श्वः- आगामिदिने स्यात् भवेत् उपलक्षणत्वादन्येद्युरन्यतरेद्युर्वा मा भूत्, य एवं प्रतिसमीक्षते - अदीनमनाः सन्नालोचयत्यलाभः - अलाभपरीषहस्तं न तर्जयेत् - नाभिभवेत् - (दृ०२०) अत्र लौकिकोदाहरणं - यथा वासुदेव बलदेवसत्यकदारुकाश्वापहृताः अटव्यां रात्रौ न्यग्रोधाधः प्रत्येकं यामेषु यामिकीभूय सुप्ताः, तत्र दारुकस्याद्ये यामे क्रोधः पिशाचरूपभृत् उत्तस्थौ, तयोर्युद्धं लग्नं, दारुको युद्धं कुर्वन् यथा यथा रुष्यति तथा तथा स वर्द्धते अजय्यश्च स्यात्, एवं स्वं यामं कृच्छ्रेण निर्वाह्य सुप्तः, एवं २ - ३ यामौ सत्यकबलदेवाभ्यां निर्वाहितौ, ततश्चतूर्ययामे कृष्णेन क्षमां कुर्वता तद् बलादि प्रशंसता स हीनतां नीतस्तावद्यावदुट्टिकायां क्षिप्तः, प्रातस्त्रीनपि भिन्नजानुकूर्परान् दृष्ट्वा कृष्णेनोक्तं - किमेतत्ततस्तैस्तदुक्तं, ततस्तेन स एव मया क्षान्त्या जित इत्युक्त्वा तस्या आकर्ण्य तेषां दर्शितोऽधुनागमो अत्रो )दाहरणं - ( ० २१ ) For Private & Personal Use Only अलाभपरी पह inelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy