________________
उत्तरा० अवचूर्णिः
परीषहाध्ययनम् २
॥२२॥
कृत्वा अग्निकुमारेषुत्पद्य सजनपदं तन्नगरं जज्वाल, ततोऽद्यापि तद्दण्डकारण्यं भण्यते, यथा शिष्यैः सोढस्तथा सोढव्यो, न तु स्कन्दकाचार्यवत् ॥ २७ ॥ ७५ ॥
परैरभिहतस्य च तथाविधौषधादि कायोपयोगि यतेचितमेव स्यादिति याचना, तत्वरीपहमाह--
दुक्करं खलु भो निच्चं अणगारस्स भिक्खुणो। सव्वं से जाइयं होइ नत्थि किंचि अजाइयं ॥ ७६ ॥ दुष्करं खलु निरुपकारिण इति विशेष द्योतयति, भो-आमन्त्रणे, नित्यमनगारस्य-भिक्षोः, यतः सर्व आहारोपकरणादि से-तस्य याचितं भवति, नास्ति किञ्चिद् दन्तशोधनादि अयाचितम् ॥ २८ ॥ ७६ ॥
ततश्च
गोयरग्गपविट्ठस्स पाणी नो सुप्पसारए । सेओ अगारवासो त्ति इइ भिक्खू न चिंतए ॥ ७७॥ गोरिव चरणं गोचरः-भिक्षाचर्या तस्याग्रं-प्रधान एषणाशुद्धिग्राहितया प्रधानगोचरः तत्प्रविष्टस्य, पाणिर्न सुखेन प्रसार्यते पिण्डाद्यर्थमिति सुप्रसारको नैव, कथं निरुपकारिणा परः प्रार्थयितुं शक्यः? इतेर्भिन्नक्रमत्वादिति हेतोः श्रेयानगारवासोगार्हस्थ्य, तत्र हि न कश्चिद्याच्यते इति भिक्षुर्न चिन्तयेदिति अत्रोदाहरण (६०१९)
यथा एकदा भिक्षार्थ भ्रमन्तं बलदेवं दृष्ट्वा तद्रूपाक्षिप्तचित्ता काचित् स्त्री घटभ्रमेण बालकं गले बद्ध्वा कूपे मुमोच, तं च तादृशं वृत्तान्तं ज्ञात्वा महानर्थहेतुं भिक्षार्थ ग्रामप्रवेशाय नियमो गृहीतः, तृणकाष्ठकाहारकेभ्यः पथिकेभ्यश्चैव भिक्षा | लाति, एवं तेन सम्यगध्यासितः एवमन्यैरप्यध्यासितव्यः ॥ २९ ॥ ७७ ॥
याचनायां वलदेवकथा
॥
५
॥
Sain Education
ainelibrary.org
For Private & Personal Use Only
salonal